________________
त्रिषष्टिशलाकापुरुषचरिते
९५॥
तृतीयं पर्व षष्ठः
सर्गः
श्रीचन्द्रप्रभ
जिन
चरितम् ।
देशना।
तव ज्ञानमिदं नाथ ! केवलाभिधमुज्वलम् । विश्वोपकारकृज्जीयाच्छाया मार्गतरोरिव ।। ८३ ।। तावदेवान्धकाराणि न यावद्दिवसेश्वरः । मदान्धास्तावदेवेभा यावत्पञ्चाननो न हि ।। ८४ ।। तावदेव हि दारिद्र्यं न यावत्कल्पपादपः । तावदेव पयोदौस्थ्यं न यावद् वार्षुकोऽम्बुदः ।। ८५ ॥ तावद्दिवससन्तापो न यावत्पूर्णचन्द्रमाः । कुबोधास्तावदेवेह न यावत् त्वं निरीक्ष्यसे ।। ८६ ॥ श्यसे नित्यमपि यैः सेव्यसे च शरीरिभिः । ताननुमोदयामीश ! सर्वदापि प्रमद्वरः ।। ८७ ॥ इदानीं त्वत्प्रसादेन त्वद्दर्शनफलं मम । सम्यक्त्वमुत्तममिदं भूयादाजन्म निश्चलम् ।। ८८ ।। इति स्तुत्वा सुनाशीरे स्थिरे सति जगद्गुरुः । प्रारेभे देशनामेवं गिरा स्तनितधीरया ।। ८९ ॥ अनन्तक्लेशकल्लोलनिलयो भवसागरः । तिर्यगूर्ध्वमधो जन्तून् क्षिपत्येष प्रतिक्षणम् ॥९०॥ एकं निबन्धनं तस्य क्रियते प्राणिभी रतिः । अशुचौ कृमिभिरिव यदत्रापि शरीरके ॥ ९१ ॥ रसासृग्मांसमेदोऽस्थिमज्जशुक्रान्त्रवच॑साम् । अशुचीनां पदं कायः शुचित्वं तस्य तत्कृतः ? || ९२ ॥ नवस्रोतःस्रवद्विस्त्ररसनिःस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो महामोहविजृम्भितम् ।। ९३ ।। शुक्रशोणितसम्भूतो मलनिःस्यन्दवर्द्धितः । गर्भे जरायुसंच्छन्नः शुचिः कायः कथं भवेत् ? ।। ९४ ॥ मातृजग्धान्नपानोत्थरसनाडीक्रमागतम् । पायंपायं विवृद्धः सन् शौचं मन्येत कस्तनोः ? ॥ ९५ ।। दोषधातुमलाकीणं कृमिगण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेच्छुचि ? ॥९६ ॥ १ सूर्यः । २ सिंहः । ३ इंद्रे । ४ “मेघगभीरया' इति पाठांतरम् । ५ “अनंतक्लेशनिलयो दुःखौघो भवसागरः” इति पाठांतरम् । ६ प्राणिभिः रतिः इति पदविभागः । ७ नवसंख्याकानि यानि स्रोतांसि द्वाराणि तेभ्यः सवन्तो विरसस्य दुर्गन्धरसस्य निःस्यंदास्तैः पिच्छिले व्याप्ते । ८ वीर्यरजोभ्यां जातः ।९ जरायुर्गर्भावरणपदार्थः तेन छन्नः । * महन् मो ।- मलनिष्यन्द । + स्तनौ ।
॥९५ ॥