________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६॥
तृतीयं पर्व षष्ठः सर्गः श्रीचन्द्रप्रभ
जिन
चरितम् ।
सुस्वादून्यन्नपानानि क्षीरेक्षुविकृतीरपि । भुक्तानि यत्र विष्ठायै तच्छरीरं कथं शुचि ?॥९७ ।। विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राशु क्व शौचं तत्र वर्मणि ?|| ९८ ॥ जग्ध्वा सुगन्धिताम्बूलं सुप्तो निश्युत्थितः प्रगे । जुगुप्सते वक्त्रगन्धं यत्र तत्कि वपुः शुचि ?॥ ९९ ।। स्वतःसुगन्धयो गन्धधूपपुष्पसगादयः । यत्सङ्गाधान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते ॥ १०० ॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः । न याति शुचितां कायः शुण्डाघट इवाशुचिः ॥१०१॥ मृज्जलानलवातांशुस्त्रानैः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥ १०२ ॥ तदनेन शरीरेण कार्य मोक्षफलं तपः । क्षाराब्धे रत्नवद् धीमानसारात्सारमुद्धरेत् ॥ १०३ ।। धर्मदेशनया भर्तुरनया च शरीरिणः । बहवः प्रत्यबुध्यन्त प्राव्रजंश्च सहस्रशः ॥ १०४ ॥ भर्तुस्त्रिनवतिर्दत्तादयो गणभृतोऽभवन् । उत्पादादित्रिपद्या ते द्वादशाङ्गीमसूत्रयन् ॥१०५ ।। देशनान्ते प्रभोः पादपीठस्थो गणभृद्वरः । विदधे देशनां दत्तो दत्तबोधः शरीरिणाम् ।।१०६ ।। तस्यापि देशनाप्रान्ते स्वं स्वं स्थानं सुरादयः । जग्मुर्नागरयुवानो वीतसंगीतका इव ॥ १०७ ॥ तत्तीर्थभूर्हरिद्यक्षो विजयो हंसवाहनः । दधानो दक्षिणे चक्रं भुजे वामे तु मुद्गरम् ॥ १०८ ॥ मरालयाना पीताङ्गी भूकुटी नाम देव्यपि । दधती दक्षिणौ बाहू खड्गमुद्गरधारिणौ ॥ १०९ ।। वामौ फलकपरशुलाञ्छितौ बिभ्रती भुजौ । तदा भगवतोऽभूतामुभे शासनदेवते ॥११०॥
॥त्रिभिर्विशेषकम् ॥ १ प्रातः काले । २ मद्यकुम्भ इव । ३ समाप्तसङ्गीतकाः । ४ हंसयाना ।
देशना।
॥९६ ॥