________________
त्रिषष्टि
शलाका
पुरुषचरि
॥९७॥
अमुक्तसन्निधिस्ताभ्यां सर्वातिशयभाजनम् । व्योमेव चन्द्रो व्यहरत् पृथ्वीं चन्द्रप्रभप्रभुः ॥ १११ ॥ सार्धा द्विलक्षी साधूनां साध्वीलक्षत्रयी पुनः । सहस्राशीतिसहिता द्वे सहस्रे तु पूर्विणाम् ॥ ११२ ॥ शताशीतिः सावधीनां मनःपर्ययिणां तथा । तथा दशसहस्राणि केवलज्ञानधारिणाम् ॥ ११३ ॥ जातवैक्रियलब्धीनां सहस्राणि चतुर्दश । वादलब्धिमतां सप्तसहस्त्री षट्शतानि च ।। ११४ ।। सार्धे लक्षे श्रावकाणां श्राविकालक्षपञ्चकम् । सहस्रैर्नवभिर्न्यनं परिवारोऽभवत्प्रभोः ।। ११५ । पूर्वलक्षं त्रिमासोनं चतुर्विंशाङ्गवर्जितम् । विहृत्य केवले स्वामी ययौ सम्मेतपर्वतम् ।। ११६ ।। समं मुनिसहस्रेण प्रपेदेऽनशनं प्रभुः । सुरासुरैः सेव्यमानो मासं चास्थात्तथाविधः ।। ११७ ।। सर्वयोगनिरोधेन निष्कम्पं ध्यानमास्थितः । तत्क्षणं क्षीणभवोपग्राहिकर्मचतुष्टयः ।। ११८ ।। नभैस्यकृष्णसप्तम्यां श्रवणस्थे निशाकरे । समं तैर्मुनिभिः स्वामी जगाम परमं पदम् ।। ११९ ।। कौमारे पूर्वलक्षे द्वे सार्धे राज्यस्थितौ पुनः । पूर्वलक्षाः षट् च सार्धाश्चतुर्विंशाङ्गसंयुताः ।। १२० ।। चतुर्विंशत्यङ्गहीनं पूर्वलक्षं पुनर्व्रते । इत्यायुः पूर्वलक्षाणि दश चन्द्रप्रभप्रभोः ।। १२१ ॥ सुपार्श्वस्वामिनिर्वाणाच्छ्रीचन्द्रप्रभनिर्वृतिः । शतेष्वर्णवकोटीनां व्यतीतेषु नवस्वभूत् ॥ १२२ ॥ इति मोक्षमुपेयुषः प्रभोर्व्रतिनां चैव शरीरसंस्क्रियाम् । विधिवद्विदधुः सुरेश्वराः पुनरेव त्रिदिवं प्रपेदिरे ॥ १२३ ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि चन्द्रप्रभस्वामिचरितवर्णनो नाम षष्ठः सर्गः ।
१ क्षीणं भवोपग्राहि भवपर्यतस्थायि कर्मचतुष्टयं यस्य सः । * प्रभः प्र° । सार्ध द्वि० । “भादरवो' इति गुर्जरे ।
तृतीयं पर्व
षष्ठः
सर्गः श्रीचन्द्रप्रभ
जिनचरितम् ।
परिवारो निर्वाणं च ।
।। ९७ ।।