________________
त्रिषष्टिशलाकापुरुषचरिते
॥९८॥
| सप्तमः सर्गः । श्रीसुविधिनाथचरितम् ।।
तृतीयं पर्व सप्तमः सर्गः |श्रीसुविधि
जिन
चरितम् ।
पूर्वभवः ।
वन्दे श्रीपुष्पदन्तस्य पुष्पदामेव निर्मलम् । जगत्त्रयशिरोवाह्यं शासनं पापनाशनम् ।। १ ।। नवमस्याहतस्तस्यानवमं चरितं प्रभोः । तत्प्रभावात्प्रभविष्णुधिषणः कीर्तयाम्यदः ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहेषु पुष्कले । विजये पुष्कलावत्यामस्ति पूः पुण्डरीकिणी ॥३॥ तस्यां पुर्यामभून्नाम्ना महापद्मो महीपतिः । महाहिमाद्रौ गम्भीरो महापद्म इव हृदः ॥ ४ ॥ आजन्मस्वीकृतस्तस्य शैशवे यौवनेऽपि च । धर्मो वपुःश्रिया सार्धमवर्धत यथोत्तरम् ॥ ५ ॥ स विरत्या विहीनेन मुहूर्तेनाप्यदूयत । धनेन वृद्धिहीनेन वृद्ध्याजीव इवान्वहम् ॥६॥ धर्मकृत्यानि कुर्वाणो राज्यकृत्यानि सोऽकरोत् । वारिपाणमिवाध्यन्यस्तरन्नध्वतरङ्गिणीम् ॥७॥ सम्यक् श्रावकधर्म स निजं कुलमिवामलम् । सुचिरं पालयामास प्रमादरहितः सुधीः ।।८।। प्रायः सन्तोषनिष्ठोऽपि न धर्मे सन्तुतोष सः । स्तोकधर्मानपि परान् मेने चाभ्यधिकान्स्वतः ॥९॥ दिव्यास्त्रमिव युत्पारे भवपारयियासया । परिव्रज्यां स जग्राह जगन्नन्दगुरोः पुरः ।।१०॥ नियूँढः श्रावकधर्मे दृढं सोऽपालयद्वतम् । कृतसंलेखन इवानशनं मारणान्तिकम् ॥ ११ ॥
१ निर्दोषम् । २ प्रभविष्णुः समर्था धिषणा बुद्धिर्यस्य । ३ वृद्ध्याजीवः भाषायाम् 'व्याजखाउ' । ४ जलपानम् । ५ पान्थः । ६ युद्धपारे । ७ दृढः । * मर ।
॥९८॥