________________
तृतीयं पर्व सप्तमः
त्रिषष्टिशलाकापुरुषचरिते ।।९९॥
सर्गः
श्रीसुविधिजिनचरितम् ।
एकावलीप्रभृतिभिः स तपोभिः सुदुस्तपैः । अर्हद्भक्त्यादिभिश्वोच्चैस्तीर्थकृन्नाम निर्ममे ।। १२ ॥ एवंविधैरनुष्ठानैर्निजायुरतिवाह्य सः । विमाने वैजयन्ताख्ये महर्द्धिरमरोऽभवत् ।। १३ ।। इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धे तु दक्षिणे । काकन्दीत्यस्ति नगरी श्रीविशेषगरीयसी ।। १४ ॥ भान्ति तत्रौकसां मुक्तावचूलाः पुष्पधन्वनः । मनस्विनीवशीकारजपमाला इवामलाः ॥ १५ ॥ तत्रायतनसङ्गीतगीतमुच्चैश्चतुर्विधम् । प्रपद्यते खेचरीणां गतेः स्तम्भनमन्त्रताम् ॥१६॥ उद्दण्डपुण्डरीकाळ्या विशदापी जलाशयाः । व्यक्तोडुशरदभ्रां द्यामनुकुर्वन्ति तत्र च ॥ १७ ॥ दूरादप्यभिगम्यन्ते नीयन्ते पाद्यपात्रताम् । प्रीण्यन्ते चोचितैरथस्तस्यां गुरुवदर्थिनः ॥ १८ ॥ सुग्रीवो नाम समभूद् ग्रैवेयकमिवावनेः । ग्रैवेयकामर इव श्रिया तत्र महीपतिः ॥ १९ ॥ तस्याज्ञा नगरारण्यसागरेषु गिरिष्वपि । सिद्धमन्त्रायुधमिव न क्वापि प्रत्यहन्यत ।। २० ॥ तस्मादद्रेरिव प्रादुर्भूता नीतितरङ्गिणी । उत्कल्लोलयशोवारिः प्रासरत्सागरावधि ॥ २१ ॥ यशोराशिपयोराशिस्तस्योर्वीशशिरोमणेः । विस्तृताः कीर्तिसरितो जग्रास सर्वभूभृताम् ।। २२ ॥ विरामः सर्वदोषाणामभिरामामलैर्गुणैः । सर्वरामाशिरोरत्नं तस्य रामेति पल्यभूत् ।। २३ ॥ निसर्गमानोज्ञकभूर्दशामानन्ददायिनी । गगने चन्द्रलेखेव सैकैवाभून्महीतले ।। २४ ।। पक्षद्वयेन शुद्धेन राजन्ती मधुरस्वरा । सा पत्युर्मानसे राजहंसीवोवास सर्वदा ।।२५ ॥
१ मौक्तिकैर्भूषितानि वस्त्रांचलानि अवचूला इति उच्यते गृहाणां ध्वजे सम्बद्धा मुक्तामयाः अधोमुखा मुक्तागुच्छा इति भवः । २ विद्याधरीणाम् । ३ निर्मलजलाः । ४ यत्र दातारः याचकानां सम्मुखं गच्छन्ति । * मनो । - "रा / स्वप० ।
जन्म ।
॥ ९९ ॥