________________
त्रिषष्टिशलाका
पुरुषचरिते
11900 ||
रतिर्न रतिमन्वाप न प्रीतिः प्रीतिमाययौ । रुपेणाप्रतिरुपेण भृशं तस्याः पराजिता ।। २६ ॥ सुग्रीवनृपतेस्तस्याश्चान्योऽन्यमनुरुपयोः । क्रीडतोरगमत्कालो रोहिणीशशिनोरिव ।। २७ ।। इतश्व वैजयन्तस्थो महापद्मस्य भूपतेः । जीवोऽपूरयदायुः स्वं त्रयस्त्रिंशतमर्णवान् ॥ २८ ॥ फाल्गुनासितनवम्यां मूलस्थे रजनीकरे । च्युत्वा ततस्तस्य जीवो रामाकुक्षाववातरत् ।। २९ ।। ददर्श च तदा देवी महास्वप्नांश्चतुर्दश । गजादींस्तीर्थकृज्जन्मपिशुनान् विशतो मुखे ।। ३० ।। जगदाधारहेतुं तं देवी गर्भं दधार सा । क्रीडन्तं मत्तकलभं निम्नगेव हिमौद्रिजा ।। ३१ ।। अथ मार्गशीर्ष कृष्णपञ्चम्यां मूलगे विधौ । श्वेतवर्णं मकराङ्कं सुतरत्नमसूत सा ।। ३२ ।। षट्पञ्चाशद्दिक्कु मार्यस्ततो भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ३३ ॥ सौधर्मकल्पाधिपतिराभि॑ियोग्य इवामरः । आदाय स्वामिनं भक्त्या मेरुशैलशिरो ययौ ॥ ३४ ॥ तच्चूलाया दक्षिणतोऽतिपाण्डुकम्बलास्थिते । सिंहासन उपाविक्षच्छक्रोऽङ्कारोपितप्रभुः ।। ३५ ।। अच्युताभक्तयस्तत्राच्युताद्यास्त्रिदशेश्वराः । त्रिषष्टिः स्नपयामासुः स्वामिनं तीर्थवारिभिः ।। ३६ ।। अथेशमै शानपतेः सौधर्मेशः समार्पयत् । रक्ष्यवस्तु स्वयामान्ते यामिकस्येव यामिकः ॥ ३७ ॥ अथ स्वामिनमीशानोत्सङ्गासीनं दिवस्पतिः । स्नपयामास वृषभशृङ्गोत्थैर्गन्धवारिभिः ॥ ३८ ॥ अङ्गरागैर्नवैश्चर्चा सर्वां चाभरणादिभिः । आरात्रिकं च कृत्वेति प्रभुं तुष्टाव वासवः ॥ ३९ ॥ धर्महर्म्यदृढस्तम्भ ! सम्यग्ज्ञानसुधाहृद ! । जगदानन्दजीमूत ! जय त्रिभुवनेश्वर ! ।। ४० ।।
१ रतिप्रीती कामपल्यौ । २ रोहिणी चंद्रपत्नी । ३ गंगा । ४ भृत्यसदृशकर्मकरो देवविशेषः । ५ जगदानंदे मेघसमान । * अच्युता भक्तितस्तत्रा इति पाठान्तरम् ।।
तृतीयं पर्व | सप्तमः सर्गः श्रीसुविधिजिनचरितम् ।
जन्म ।
।। १०० ।