________________
* S
त्रिषष्टिशलाका
पुरुषचरिते
तृतीयं पर्व |सप्तमः |सर्गः |श्रीसुविधिजिनचरितम् ।
||१०१॥
जन्म।
जगदीश ! तव ब्रूमः किं नामातिशयान्तरम् ? । यन्माहात्म्यगुणक्रीति त्रिलोकी याति दासताम् ।। ४१ ।। स्वर्गराज्येऽपि न भ्राजे तथा दास्ये यथा तव । भात्यद्रौ न तथा रत्नमप्यघ्रिकटके यथा ॥ ४२ ॥ शिवं यियासुरायासीर्वैजयन्ताच्छिवान्तिकात् । मार्गभ्रान्तस्य लोकस्य मार्ग दर्शयितुं ध्रुवम् ॥ ४३ ।। भरतक्षेत्रगेहस्य चिरात् त्वमसि दैवतम् । निःशङ्कं तत्र धर्मोऽद्य गृहस्थ इव नन्दतु ।। ४४ ।। विश्वनाथ ! त्वदीयस्य रुपस्यास्यातिशायिनः । अवतारणतां यातु सर्वोऽयं दिविषद्गणः ।। ४५ ॥ ज्योत्स्नायिते प्रभापूरे लीयमानानि सस्पृहम् । दिष्ट्या त्वयि चकोरन्ति लोचनानि चिरात्प्रभो !॥४६ ।। | वासागारे सभायां वा तिष्ठतश्चलतोऽपि मे । त्वन्नाममन्त्रस्मरणमस्तु सर्वार्थसिद्धिदम् ।। ४७ ।। जिनेश्वरमिति स्तुत्वा गृहीत्वा च सुरेश्वरः । नीत्वा च रामास्वामिन्याः पार्थे न्यास्त यथास्थिति ।। ४८ ।। कुशला सर्वविधिषु गर्भस्थेऽस्मिन् जनन्यभूत् । पुष्पदोहदतो दन्तोद्गामोऽस्य समभूदिति ।। ४९ ।। सुविधिः पुष्पदन्तश्चेत्यभिधानद्वयं विभोः । महोत्सवेन चक्राते पितरौ दिवसे शुभे ॥५०॥ ।युग्मम् ।। जन्मतः प्रभृति स्वामी दर्शयन्नन्तरं महत् । क्रमेण ववृधे मेषसन्क्रान्तेरिव वासरः ॥५१॥ अवाप च जगन्नाथो यौवनं रुपपावनम् । धनुःशतोच्चः श्वेताङ्गः क्षीरोद इव मूर्तिमान् ।। ५२ ।। स्वामी भवविरक्तोऽपि भृशं पित्रनुरोधतः । उपयेमे राजकन्याः श्रियो विजयिनीः श्रिया ।। ५३ ।। गतायां पूर्वपञ्चाशत्सहस्यां जन्मतः प्रभुः । अलुब्धः पितृदाक्षिण्याद् राज्यभारमुपाददे ।। ५४ ।।
१ मोक्षांतिकात् । २ चकोर इवाचरति । ३ अस्थापयत् । ४ चैत्रमासदिवसवत् । ५ अनासक्तः । * पपस्याप्यति । - "पि वा / त्वन्नाममन्त्रस्मरणं मेऽस्तु स ।
HAHARASWASHRSHASHRSHASHRSS
।।१०१ ।।