________________
तृतीयं पर्व सप्तमः
त्रिषष्टिशलाकापुरुषचरिते ।।१०२॥
सर्गः
श्रीसुविधिजिनचरितम् ।
साष्टाविंशतिपूर्वाङ्ग कालं तावन्तमेव हि । साम्राज्यं पालयामास विधिवत्सुविधिप्रभुः ।। ५५ ॥ इयेष च व्रतं स्वामी ते च लौकान्तिकामराः । तत्कृते प्रेरयामासुश्चाटुकारा इव प्रभुम् ।। ५६ ।। गतकामो यथाकामं चिन्तामणिरिवार्थिनाम् । ददौ दानं जगन्नाथस्ततः संवत्सरावधि ।। ५७ ।। पर्यन्ते तस्य दानस्य जन्मकाल इवामरैः । विधिवद् विदधे दीक्षाभिषेकः परमेशितुः ।। ५८ ।। ततः सूरप्रभा नामाध्यारुह्य शिबिकां प्रभुः । वृतः सुरासुरनरैः सहस्राम्रवणं ययौ ।। ५९ ।। मार्गकृष्णषष्ठ्यां मूलेऽपराह्ने षष्ठपूर्वकम् । समं राज्ञां सहस्रेण प्रव्रज्यामाददे प्रभुः ॥६०॥ द्वितीयेऽह्नि श्वेतपुरे पुरे पुष्पनृपौकसि । चकार परमान्नेन पारणं परमेश्वरः ॥६१ ॥ विदधुर्वसुधारादिपञ्चकं च दिवौकसः । रत्नपीठं स्वामिपादस्थाने पुष्पनृपः पुनः ।। २ ।। एकाङ्गो निर्ममोऽसङ्गः सहमानः परीषहान् । छद्मस्थो विजहाराथ चतुर्मासी जगत्पतिः ।। ६३ । आजगाम प्रभुर्भूयः सहस्राम्रवणं वनम् । मालूरतरुमूले चावतस्थे प्रतिमाधरः ॥ ६४ ॥ आरूढक्षपकणेरपूर्वकरणक्रमात् । ऊर्जशुक्लतृतीयायां मूलेऽभूत् केवलं प्रभोः ।। ६५ ।। ततः समवसरणं व्यधीयत सुरासुरैः । पूर्वद्वारेण तत्राथ प्रविवेश जगद्गुरुः ।। ६६ ॥ तत्र द्वादशकोदण्डशतोच्चं चैत्यपादम् । प्रभुः प्रदक्षिणीचक्रे सर्वातिशयशोभितः ।। ६७ ।। “तीर्थाय नम” इत्युक्त्वाध्यास्त सिंहासनं प्रभुः । प्राङ्मुखो दिक्षु चान्यासु तद्रूपाणि व्यधुः सुराः ।। ६८ ॥ यथास्थानमथान्येऽपि निषेदुरमरादयः । प्रणम्याथ प्रभुं शक्रः स्तोतुमेवं प्रचक्रमे ।। ६९ ॥ १ऐच्छत् । २ प्रियवादिनः । ३ इच्छारहितः । ४ ममतारहितः । ५ कार्तिकशुक्लतृतीयायाम् । * 'तलमू ।
दीक्षा केवलज्ञानं
च।
॥ १०२ ॥