________________
त्रिषष्टिशलाकापुरुषचरिते ।।१०३।।
तृतीयं पर्व सप्तमः सर्गः | श्रीसुविधिजिनचरितम् ।
वीतरागोऽसि चेद् रागः पाणिपादे कथं तव ? । कौटिल्यं च त्वया मुक्तं कि केशाः कुटिलास्तव ? ||७० ॥ प्रजानां यदि गोपेस्त्वं दण्डहस्तोऽसि किं न हि ? | निःसङ्गो यदि वासि त्वं तत्कि त्रैलोक्यनाथता ? |७१ ॥ यदि त्वं निर्ममस्तविक सर्वत्र करुणापरः ? । त्यक्तालङ्करणश्वेत्त्वं तत् किं रत्नत्रयप्रियः ? ॥ ७२ ।। विश्वस्याप्यनुकूलश्चेत्तत् किं मिथ्याशां द्विषन् ? । स्वभावसरलश्चेत्त्वं छद्मस्थोऽस्थाः कथं पुरा ? ।। ७३ ।। दयावान्यदि वासि त्वं न्यग्रहीमन्मथं कथम् ? | यदि च त्वं गतभयो भवागीतोऽसि तत्कथम् ? ॥७४ ॥ यापेक्षापरोऽसि त्वं तत् किं विश्वोपकारकः ? । अदीप्तो यदि वासि त्वं दीप्तभामण्डलः कथम् ? ।। ७५ ।।। यदि शान्तस्वभावस्त्वं तत्कुतस्तप्तवांश्चिरम् ? । अरोषणोऽसि यदि च रुषितः कर्मणां कथम् ? ।। ७६ ।। अविज्ञेयस्वरुपाय महद्भ्योऽपि महीयसे । सिद्धानन्तचतुष्काय तुभ्यं भगवते नमः ॥७७ ।। विरचय्य स्तुतिमिति तूष्णीके सति वासवे । भगवान् सुविधिस्वामी विदधे देशनामिति ।। ७८ ।। अनन्तदुःखसम्भारनिधानं खल्वयं भवः । प्रभवश्चास्रवस्तस्य विषस्येव महोरगः ।। ७९ ।। मनोवाक्कायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तुनामाश्रवास्तेन कीर्तिताः ॥८॥ मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ।। ८१ ।। शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेयमशुभार्जनहेतवे ।। ८२ ।। शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ।। ८३ ।।
१ विरोधपरिहारे रागः अरुणिमा । २ गोपालः पालकश्व । ३ ज्ञानदर्शनचारित्राख्यं रत्नयत्रयम् । ४ महते पूज्याय । ५ ज्ञानदर्शनचारित्रवीर्याख्यं चतुष्टयम् । ६ सत्यम् I * पुरः ।
शक्रस्तुतिः ।
॥१०३ ॥