________________
तृतीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते ।।१०४॥
सप्तमः सर्गः श्रीसुविधि
जिन
चरितम् ।
कषाया विषया योगाः प्रमादाविरती तथा । मिथ्यात्वमातरौद्रे चेत्यशुभं प्रति हेतवः ।। ८४ ॥ यः कर्मपुद्गलादानहेतुः प्रोक्तः स आश्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ।। ८५ ।। ज्ञानदर्शनयोस्तद्वत्तद्हेतूनां च ये किल । विघ्ननिह्नवपैशून्याशातनाघातमत्सराः ।। ८६ ।। ते ज्ञानदर्शनावारकर्महतव आनवाः । देवपूजा गुरुपास्तिः पात्रदानं दया क्षमा ।। ८७ ।। सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः ।। ८८ ॥ दुःखशोकवधास्तापाक्रन्दने परि वनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः ।। ८९ ।। वीतरागे श्रुते सधै धर्मे सङ्घगुणेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामता ।। ९० ॥ सर्वज्ञसिद्धिदेवापह्नवो धार्मिकदूषणम् । उन्मार्गदेशनानाग्रहोऽसंयतपूजनम् ।। ९१ ।। असमीक्षितकारित्वं गुर्वादिष्ववमानता । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ।। ९२ ।। कषायोदयतस्तीव्रपरिणामोऽयमात्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः ।। ९३ ।। उत्प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिर्हासस्यामी स्युराश्रवाः ।। ९४ ।। देशादिदर्शनोत्सुक्यं चित्रे रमणखेलने । परचित्तोवर्जनं चेत्याश्रवाः कीर्तिता रतेः ।। ९५ ॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चारतेराश्रवा अमी ।। ९६ ।।
१ कर्मणः पुद्गलानां ग्रहणे । २ “पाय" इति पाठांतरं । ३ अज्ञानतपः । ४ सातावेदनीयस्य । ५ शोकः । ६ स्वस्मिन्नन्यस्मिन्नुभयस्मिन् वा स्थिताः ।७ "सर्वसुरेषु" इति वा पाठः । ८ अपवादवादित्वम् । ९ अविचारकारित्वम् । १० अवज्ञा । ११ अधिकं हास्यम् १२ परचित्तस्याकर्षणम् । १३ आनंदध्वंसः । १४ परस्याकुशले उत्साहः । + देशः प्रदेशः -- अङ्गोपाङ्गानि इति ।
देशना ।
॥१०४ ॥