________________
तृतीयं पर्व
सप्तमः
त्रिषष्टिशलाकापुरुषचरिते ।।१०५॥
सर्गः श्रीसुविधिजिनचरितम् ।
स्वयं भयपरीणामः परेषामथ भापनम् । त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा अमी ॥९७॥ परशोकाविष्करणं स्वशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्युराश्रवाः ।। ९८ ।। चतुर्वर्णस्य सङ्घस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्युराश्रवाः ।। ९९ ।। ईर्ष्याविषयगायें च मृषावादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याश्रवा इमे ।। १०० ॥ स्वदारमात्रसन्तोषोऽनीा मन्दकषायता । अवक्राचारशीलत्वं पुंवेदस्याश्रवा इति ।। १०१ ।। स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीव्रकामता । पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदाश्रवा अमी ॥१०२ ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता । मधुमांसाविरतानामविरत्यभिवर्णनम् ।। १०३ ।। विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं तथा चारित्रदूषणम् ।। १०४ ॥ कषायनोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्येनाश्रवा अमी ।। १०५॥ पञ्चेन्द्रियप्राणिवधो बह्वारम्भपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता ॥१०६ ।। रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायते । कृष्णनीलकपोताश्च लेश्या अनृतभाषणम् ।। १०७ ॥ परद्रव्यापहरणं मुहुर्मैथुनसेवनम् । अवशेन्द्रियता चेति नरकायुष आश्रवाः ।। १०८ ॥ उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्तध्यानं सशल्यत्वं मायारम्भपरिग्रहौ ॥१०९ ॥ शीलव्रते सातिचारे नीलकापोतलेश्यता । अप्रत्याख्यानकषायास्तिर्यगायुष आश्रवाः ॥११०॥
१ अपवादनिदै । २ ईर्ष्याविषयलुब्धते । ३ अविरतेः प्रशंसा । ४ देशविरतानाम् । ५ अचारित्रगुणकथनम् । ६ अनुग्रहरहितत्वम् । * ख्यानाः क ।
FARRAHASABHASHASHRSS*
देशना।
॥ १०५ ।।