________________
त्रिषष्टिशलाका
पुरुषचरिते
1190 11
अल्पौ परिग्रहाऽऽरम्भौ सहजे मार्दवार्जवे । कापोतपीतलेश्यत्वं धर्मध्यानानुरागिता ।। १११ ॥ प्रत्याख्यानकषायत्वं परिणामश्व मध्यमः । संविभागविधायित्वं देवतागुरुपूजनम् ।। ११२। पूर्वालापप्रियालापौ सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्यं मानुषायुष आश्रवाः ।। ११३ ।। सरागसंयमो देशसंयमोऽकामनिर्जरा । कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ।। ११४ ॥ पात्रे दानं तपः श्रद्धा रत्नत्रयाविराधना । मृत्युकाले परीणामो लेश्ययोः पद्मपीतयोः ।। ११५ । बालतपोऽग्नितोयादिसाधनोल्लम्बनानि च । अव्यक्तसामायिकता दैवस्यायुष आश्रवाः ।। ११६ ।। मनोवाक्कायवक्रत्वं परेषां विप्रतारणाम् । मायाप्रयोगो मिथ्यात्वं पैशून्यं चलचित्तता ।। ११७ ॥ सुवर्णादिप्रतिच्छन्दकरणं कूटसाक्षिता । वर्णगन्धरसस्पर्शाद्यन्यथापादनानि च ॥ ११८ ॥ अङ्गोपाङ्गच्यावनानि यन्त्रपञ्जरकर्म च । कूटमानतुलाकर्मान्यनिन्दात्मप्रशंसनम् ।। ११९ ।। हिंसानृतस्तेयाब्रह्ममहारम्भपरिग्रहाः । परुषासभ्यवचनं शुचिवेषादिना मदः ।। १२० ।। मौर्खर्याक्रोशौ सौभाग्योपघातः कार्मणक्रिया । परकौतूहलोत्पादः परिहासविडम्बनैः ।। १२१ ।। वैश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजात् गन्धादिचौर्यं तीव्रकषायता ॥ १२२ ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् । अङ्गारादिक्रिया चैवाशुभस्य नाम्न आश्रवाः ।। १२३ ।।
१ मृदुता ऋजुता च । २ पूर्वालापः प्रथमतः स्वागतकथनम् । ३ सुखपृच्छाकथनम् । ४ सन्मित्रसंगतिः । ५ अग्निजलादिना मरणं तथा रज्ज्वादिना मरणम् । ६ अस्पष्टसामायिकता । ७ वस्तुसंयोगेन कूटस्वर्णादिकरणं । ८ अंगोपांगच्छेदनानि । ९ मौखर्यं वाचालत्वम् । १० मंत्रादिना वशीकरणादिक्रिया । ११ प्रतिश्रयः उपाश्रयो धर्मशाला च ।
तृतीयं पर्व
सप्तमः सर्गः श्रीसुविधिजिन
चरितम् ।
देशना ।
।। १०६ ।।