________________
त्रिषष्टि
शलाका
पुरुषचरिते
1190911
एत एवान्यथारुपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ।। १२४ ॥ दर्शने धार्मिकाणां च सम्भ्रमः स्वागतकिया । आश्रवाः शुभनाम्नोऽथ तीर्थकृन्नाम्न आश्रवाः ।। १२५ ॥ भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु ।। १२६ ।। आवश्यके व्रतशीलेष्वप्रमादो विनीतता । ज्ञांनाभ्यासस्तपस्त्यागौ मुहुर्ध्यानं प्रभावना ।। १२७ ॥ सङ्घे समाधिजननं वैयावृत्त्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ।। १२८ ।। आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः । एको द्वौ वा त्रयः सर्वे वान्यैः स्पृष्टा जिनेश्वरैः ।। १२९ ॥ परस्य निन्दावज्ञोपहासाः सद्गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ १३० ॥ सदसद्गुणप्रशंसा च स्वदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचैर्गोत्राश्रवा अमी ॥ १३१ ॥ नीचैर्गोत्राश्रवविपर्यासो विगतगर्वता । वाक्कायचित्तैर्विनय उच्चैर्गोत्राश्रवा अमी ।। १३२ ॥ दाने लाभे च वीर्ये च तथा भोगोपभोगयोः । सव्याजाव्याजविघ्नोऽन्तरायकर्मण आश्रवाः ।। १३३ ।। तदित्याश्रवजन्माऽयमपारो भवसागरः । प्रव्रज्यायानपात्रेण तरणीयो मनीषिणा ।। १३४ ॥ कुमुदानीन्दुभासेवाबुध्यन्त बहवस्तदा । धर्मदेशनया भर्तुः प्राव्रजंश्च सहस्रशः ।। १३५ ।। अष्टाशीतिर्वराहाद्या आसन् गणभृतः प्रभोः । देशनान्ते च विदधे वराहो धर्मदेशनाम् ॥ १३६ ॥ गणभृद्देशनान्तेऽयुः स्वं स्वं स्थानं सुरा - ऽसुराः । नन्दीश्वरस्य मध्येन कुर्वन्तोऽष्टयह्निकोत्सवम् ॥ १३७ ॥
१ प्रतिक्रमणक्रियायाम् । * सुरेश्वराः ।
तृतीयं पर्व
सप्तमः
सर्गः
श्रीसुविधि
जिनचरितम् ।
देशना ।
।। १०७ ।।