________________
P
त्रिषष्टिशलाकापुरुषचरिते ||१०८॥
तृतीयं पर्व | सप्तमः सर्गः श्रीसुविधि|जिनचरितम् ।
तत्तीर्थजन्मा त्वजितः श्वेताङ्गः कूर्मवाहनः । बिभ्राणो दक्षिणी बाहू मातुलिङ्गाऽक्षसूत्रिणौ ।। १३८ ॥ वामौ तु नकुलकुन्तधारिणौ धारयन् भुजौ । नित्यमासन्नवासीद् भर्तुः शासनदेवता ।। १३९ ॥ तथोत्पन्ना सुताराख्या गौरागी वृषवाहना ! वरदं साक्षसूत्रं च बिभ्राणा दक्षिणी भुजौ ॥१४० ॥ कलशाङ्कुशिनौ बाहू दधाना दक्षिणेतरौ । पारिपाश्विक्यभून्नित्यं भर्तुः शासनदेवता ॥ १४१ ॥ ताभ्यामधिष्ठिताभ्यर्णः कृपारसमहार्णवः । विजहार जगन्नाथो जगतीं बोधयञ्जनान् ॥ १४२ ॥ साधुद्विलक्षी साध्वीनां लक्षं विंशसहस्रयुक् । अवधिज्ञानिनामष्टौ सहस्राः सचतुःशताः ।। १४३ ॥ सहस्रं पूर्विणां सार्धे मनःपर्ययिणां पुनः । पञ्चसप्ततिशत्येषा केवलज्ञानिनामपि ॥ १४४ ॥ जातवैक्रियलब्धीनां सहस्राणि त्रयोदश । सञ्जातवादलब्धीनां सहस्राणि षडेव हि ।। १४५ ॥ सैकोनत्रिंशत्सहस्रा श्रावकाणां द्विलक्ष्यथ । श्राविकाणां चतुर्लक्षी द्वासप्ततिसहस्रयुक् ।। १४६ ।। ऊनमष्यविंशत्यया चतुर्मास्या च केवलात् । पूर्वलक्षं विहरतः परिवारोऽभवत्प्रभोः ।। १४७ ॥
॥पञ्चभिः कुलकम् ॥ सम्मेताद्रिं ततो गत्वा ऋषिणां दशभिः शतैः । प्रपेदेऽनशनं स्वामी मासं चास्थात्तथास्थितः।। १४८ ।। नभस्यकृष्णनवम्यां मूले मे तैः महर्षिभिः । शैलेशीध्यानलीनः सन् स्वाम्यगादव्ययं पदम् ।।१४९ ।। कौमारे लक्षपूर्वार्धमथ राज्यस्य पालने । युक्तमष्टाविंशत्याङ्गैः पूर्वलक्षार्धमेव हि ॥ १५०॥ १ आश्रितमभ्यर्ण सामीप्यं यस्य सः । २ नमस्यः भाद्रपदः । ३ नक्षत्रे । * च ।
परिवारो निर्वाणं च ।
RASHASHRSHASHASAR
॥ १०८ ॥