________________
त्रिषष्टि
शलाका
पुरुषचरिते 11908 11
अष्टाविंशत्यङ्गहीनं पूर्वलक्षं पुनर्व्रते । इत्यायुः पूर्वलक्षे द्वे सुविधिस्वामिनोऽभवत् ।। १५१ ।। श्रीचन्द्रप्रभनिर्वाणात् सुविधिस्वामिनिर्वृतिः । सागरोपमकोटीनां गतायां नवतावभूत् ।। १५२ । विधिवदमरनाथाः कायसंस्कारपूर्वम् मुनिदशशतयुक्तस्यार्हतोऽष्टाधिकस्य ।
शिवगतिमहिमानं चक्रिरे निःसमानं तदनु सपरिवाराः स्वं स्वमीयुर्विमानम् ।। १५३ ।। सुविधिस्वामिनिर्वाणाद्गते काले कियत्यपि । हुण्डावसर्पिणीदोषात् साधूच्छित्तिरजायत ।। १५४ ॥ स्थविरश्रावकान् धर्ममथापृच्छन्नतद्विदः । पन्थानं पथिसम्मूढाः पथिकान् पथिका इव ।। १५५ ॥ किञ्चित् कथयतां तेषां धर्ममात्मानुसारतः । अर्थपूजां विदधिरे ते जनाः श्रावकोचिताम् ॥ १५६ ॥ पूजया जातगर्द्धास्ते शास्त्राण्यासूत्र्य तत्क्षणम् । महाफलानि दानानि विविधान्याचचक्षिरे ।। १५७ ।। कन्यादानं महीदान प्रदानमयसामैपि । तिलदानं च कार्पासंदानं दानं गवामपि ।। १५८ ॥ स्वर्णदानं रूप्यदानं प्रदानं सद्मनामपि । अश्वदानं गजदानं शय्यादानमथापरम् ॥। १५९ ।। दानं महाफलं सर्वमत्रामुत्र सुनिश्चितम् । एवं व्याचख्युराचार्यभूय ते गृध्नवोऽन्वहम् ।। १६० ।। दानस्य चोचितं पात्रमात्मानं व्याचचक्षिरे । अपात्रं चापरं सर्वमैखर्वेहादुराशयाः ।। १६१ ।। अप्येवं वञ्चकास्तेऽयुर्लोकानां गुरुतां तदा । निर्वृक्षे देशे क्रियते ह्येरण्डस्यापि वेदिका ।। १६२ ।
१ स्थानम् । २ द्रव्यादिषु लुब्धाः । ३ लोहानाम् । ४ तूलदानम् । ५ उत्कटेच्छया दुष्टाशयाः ।
* अथ पू° । सर्वं सुखार्थेहा ।
तृतीयं पर्व
सप्तमः
सर्गः श्रीसुविधिजिनचरितम् ।
तीर्थोच्छेदः ।
।। १०९ ।