________________
तृतीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥९१॥
सर्ग:
श्रीचन्द्रप्रभजिनचरितम् ।
तस्या भ्रुवोश्च गत्यां च कौटिल्यं न तु चेतसि । मध्यप्रदेशे तुच्छत्वं न पुनर्मतिसम्पदि ।।२६ ॥ तस्या गुणच सर्वामपि सर्वातिशायिनीम् । अलञ्चकार सेनानीरिव शीलगुणो महान् ।। २७ ।। इतश्च वैजयन्तस्थः स जीवः पद्मभूपतेः । त्रयस्त्रिंशत्पयोराशिसङ्ख्यमायुरपूरयत् ।। २८ ।। च्युत्वा च लक्ष्मणादेव्याः कुक्षाववततार सः । चैत्रस्य कुष्णपञ्चम्यामनुराधागते विधौ ।। २९ ।। तदानी लक्ष्मणादेवी तीर्थकृज्जन्मसूचकान् । चतुर्दश महास्वप्नान् सुखसुप्ता निरैक्षत ॥ ३० ॥ तं रत्नं रत्नगर्भेव रत्नसर्वस्वमुज्वलम् । सुखेन धारयामास लक्ष्मणादेव्यलक्षितम् ।।३१ ॥ पौषस्य कृष्णद्वादश्यामनुराधास्थिते विधौ । चन्द्राङ्क चन्द्रवर्णं च सुतरत्नमसूत सा ॥३२ ।। तदा चासनम्पेन ज्ञात्वा जन्माष्टमार्हतः । सूतिकाकर्म चक्रुः षट्पञ्चाशद्दिकुमारिकाः ॥३३॥ जन्मस्नात्रोत्सवं चक्रे मुदा सौधर्मवासवः । अनैषीन्मेरुशिरसि स्वामिनं सुमनोवृतः ।। ३४ ।। अतिपाण्डुकम्बलायां शिलायां परमेश्वरम् । विधायाङ्के निषसाद रत्नसिंहासने हरिः ।। ३५ ।। अथाच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । स्वामिनं स्नपयामासुरानुपूर्योल्लसन्मुदः ।। ३६ ।। ईशानेन्द्राङकपर्यङ्के निवेश्य स्वामिनं ततः । शक्रोऽपि स्नपयामास वृषशृङ्गोत्थितैर्जलैः ।।३७ ॥ दिव्याङ्गरागनेपथ्यवस्त्रैरभ्यर्च्य भक्तितः । भगवन्तमिति स्तोतुमारेभे पाकशासनः ।।३८ ।। त्वामनन्तगुणं स्तोतुं प्रवृत्तोऽस्मि हसास्पदम् । आधारबुद्ध्या गगनस्योत्पाद इव टिट्टिभः ।। ३९ ।। १ महीव । २ देवैः परिवृतः । ३ अनुक्रमेण । ४ ईशानेंद्रस्यांक एव पर्यकस्तस्मिन् । ५ हास्यस्थानमस्मि ।
जन्म ।
॥९१ ॥