Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 354
________________ त्रिषष्टि शलाका पुरुषचरिते ॥९०॥ कालेन क्षपयित्वाऽऽयुर्व्रतद्रोः प्रथमं फलम् । विमानं वैजयन्ताख्यं स जगाम महातपाः ।। १२ ।। इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे च भरताभिधे । पुरी चन्द्राननेत्यस्ति क्षितेराननसन्निभा ॥ १३ ॥ तस्यामनेकरत्नाढ्या विभात्यापणवीथिका । उद्रेचिताम्भोविभवं भाण्डमम्भोनिधेरिव ॥ १४ ॥ नानाकाराण्यगाराणि नानावर्णानि तत्र च । अदभ्राणीव सन्ध्याभ्राण्यवतीर्णानि भूतले ।। १५ । तदुद्यानेषु दृश्यन्ते चारणाः प्रतिमास्थिताः । आर्शिरःपादनिष्कम्पाः पुंरुपा इव पर्वताः ।। १६ ।। तस्यां च वासागारेषु रानेषु प्रतिबिम्बितैः । स्वैरेव केयमन्येति कुप्यन्ति प्रेयसि स्त्रियः ।। १७ ।। तस्यामासीन्महासेनः सेनाच्छन्नमहीतलः । महीपतिः पतिरपामिवाधृष्यशिरोमणिः ।। १८ ॥ तद्विक्रमस्य समभूद्भक्तो भृत्य इवानिशम् । प्रतापस्तत्क्रियां कुर्वन्नुर्वीविजयलक्षणम् ।। १९ ।। अलङच्यशासने तस्मिन् शासत्यवनिमण्डलम् । अभूदाजन्मविरतः परस्वहरणे जनः ॥ २० ॥ अलब्धमध्योऽब्धिरिव शशीवातिमनोरमः । कल्पद्रुरिव दानेन्द्र इवाधीशश्च सोऽभवत् ॥ २१ ॥ कपाटपृथुले तस्योरःस्थलेऽनन्यमानसा । हंसीव गङ्गापुलिने रमा रेमे निरन्तरम् ॥ २२ ॥ तस्यासील्लक्ष्मणा नाम पत्नी सम्पूर्णलक्षणा । मुखलक्ष्म्यातिहारिण्या विजेत्री शशलक्ष्मणः ।। २३ ।। लावण्यपुरमसमं सर्वाङ्गीणं दधत्यपि । पीयूषमेव सावर्षदृशापि च गिरापि च ॥ २४ ॥ सा स्थलाम्भोरुहाणीव विकचानि पदे पदे । पादाभ्यां रोपयामास विचरन्त्यतिमन्थरम् ।। २५ । १ व्रतवृक्षस्य । २ उद्रेचितोऽधिकवृद्धः अम्भोविभवो यस्य । ३ गृहाणि । ४ अनल्पानि । ५ गगनचारिमुनयः । ६ शिरसः आरभ्य पादपर्यन्तं कंपरहिताः । ७ रत्नमयेषु । ८ चंद्रस्य । ९ अतिमन्दम् । तृतीयं पर्व षष्ठः सर्गः श्रीचन्द्रप्रभजिनचरितम् । जन्म । ।। ९० ।।

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384