Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 355
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥९१॥ सर्ग: श्रीचन्द्रप्रभजिनचरितम् । तस्या भ्रुवोश्च गत्यां च कौटिल्यं न तु चेतसि । मध्यप्रदेशे तुच्छत्वं न पुनर्मतिसम्पदि ।।२६ ॥ तस्या गुणच सर्वामपि सर्वातिशायिनीम् । अलञ्चकार सेनानीरिव शीलगुणो महान् ।। २७ ।। इतश्च वैजयन्तस्थः स जीवः पद्मभूपतेः । त्रयस्त्रिंशत्पयोराशिसङ्ख्यमायुरपूरयत् ।। २८ ।। च्युत्वा च लक्ष्मणादेव्याः कुक्षाववततार सः । चैत्रस्य कुष्णपञ्चम्यामनुराधागते विधौ ।। २९ ।। तदानी लक्ष्मणादेवी तीर्थकृज्जन्मसूचकान् । चतुर्दश महास्वप्नान् सुखसुप्ता निरैक्षत ॥ ३० ॥ तं रत्नं रत्नगर्भेव रत्नसर्वस्वमुज्वलम् । सुखेन धारयामास लक्ष्मणादेव्यलक्षितम् ।।३१ ॥ पौषस्य कृष्णद्वादश्यामनुराधास्थिते विधौ । चन्द्राङ्क चन्द्रवर्णं च सुतरत्नमसूत सा ॥३२ ।। तदा चासनम्पेन ज्ञात्वा जन्माष्टमार्हतः । सूतिकाकर्म चक्रुः षट्पञ्चाशद्दिकुमारिकाः ॥३३॥ जन्मस्नात्रोत्सवं चक्रे मुदा सौधर्मवासवः । अनैषीन्मेरुशिरसि स्वामिनं सुमनोवृतः ।। ३४ ।। अतिपाण्डुकम्बलायां शिलायां परमेश्वरम् । विधायाङ्के निषसाद रत्नसिंहासने हरिः ।। ३५ ।। अथाच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । स्वामिनं स्नपयामासुरानुपूर्योल्लसन्मुदः ।। ३६ ।। ईशानेन्द्राङकपर्यङ्के निवेश्य स्वामिनं ततः । शक्रोऽपि स्नपयामास वृषशृङ्गोत्थितैर्जलैः ।।३७ ॥ दिव्याङ्गरागनेपथ्यवस्त्रैरभ्यर्च्य भक्तितः । भगवन्तमिति स्तोतुमारेभे पाकशासनः ।।३८ ।। त्वामनन्तगुणं स्तोतुं प्रवृत्तोऽस्मि हसास्पदम् । आधारबुद्ध्या गगनस्योत्पाद इव टिट्टिभः ।। ३९ ।। १ महीव । २ देवैः परिवृतः । ३ अनुक्रमेण । ४ ईशानेंद्रस्यांक एव पर्यकस्तस्मिन् । ५ हास्यस्थानमस्मि । जन्म । ॥९१ ॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384