Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टि
शलाकापुरुषचरि
॥८९॥
षष्ठः सर्गः ।
श्री चन्द्रप्रभस्वामिचरितम् ।
वन्दे ध्वस्तमहामोहध्वान्तामानन्ददायिनीम् । चन्द्रप्रभामिव गिरं चन्द्रप्रभजिनप्रभोः ॥ १ ॥ चरितं कीर्तयिष्यामि चन्द्रप्रभजिनेशितुः । भव्यानां भविनां मोहेहिमान्यर्कातपोपमम् ॥ २ ॥ धातकीखण्डद्वीपस्य प्राग्विदेहस्य मण्डने । विजये मङ्गलावत्यामस्ति पू रत्नसञ्चया ॥३॥ पद्मो राजाऽभवत्तस्यां पद्मायाः पद्मवद्गृहम् । भोगावत्यां भोगिराज इवोर्जितपराक्रमः ॥ ४ ॥ सेव्यमानोऽपि गन्धर्वैर्दिव्यसङ्गीतकारिभिः । अत्यप्सरोभिर्वारस्त्रीजनैश्च परिवारितः ॥ ५ ॥ दिव्याङ्गरागनेपथ्यदुकूलैश्च मनोरमैः । विभूष्यमाणसर्वाङ्गश्रीविशेषोऽपि सर्वदा ॥ ६ ॥ भूमिपालैः पाल्यमान शासनोऽपि दिवानिशम् । नित्यमक्षीणकोशोऽपि सदा सुस्थप्रजोऽपि हि ॥ ७ ॥ सर्वथा दुःखलेशस्याप्यनास्पदतया स्थितः । संसारवासवैराग्यं स भेजे तत्त्वविद्वरः ॥ ८ ॥ ॥ चतुर्भिः कलापकम् ॥
भवस्य छेदनायाथ गिरेरिव पवि हरिः । अग्रहीत्स परिव्रज्यां युगन्धरगुरोः पुरः ।। ९ ।। विविधाभिग्रहो दान्तो विहितेन्द्रियनिग्रहः । स्वविग्रहेऽप्यनाकाङक्षश्चिरं सोऽपालयद् व्रतम् ॥ १० ॥ महारत्नं महामूल्यैरिव स्थानैस्तु कैरपि । दुरर्जमर्जयामास तीर्थकृन्नाम कर्म सः ॥ ११ ॥
१ ध्वस्तो महामोह एव ध्वान्तो यया ताम् । २ मोह एव हिमानी तस्यां सूर्यातपसमानम् । ३ लक्ष्म्याः । ४ इंद्रः । ५ अनासक्तः ।
तृतीयं पर्व
षष्ठः
सर्गः
श्रीचन्द्रप्रभ
जिन
चरितम् ।
पूर्वभवः ।
1148 11

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384