SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरि ॥८९॥ षष्ठः सर्गः । श्री चन्द्रप्रभस्वामिचरितम् । वन्दे ध्वस्तमहामोहध्वान्तामानन्ददायिनीम् । चन्द्रप्रभामिव गिरं चन्द्रप्रभजिनप्रभोः ॥ १ ॥ चरितं कीर्तयिष्यामि चन्द्रप्रभजिनेशितुः । भव्यानां भविनां मोहेहिमान्यर्कातपोपमम् ॥ २ ॥ धातकीखण्डद्वीपस्य प्राग्विदेहस्य मण्डने । विजये मङ्गलावत्यामस्ति पू रत्नसञ्चया ॥३॥ पद्मो राजाऽभवत्तस्यां पद्मायाः पद्मवद्गृहम् । भोगावत्यां भोगिराज इवोर्जितपराक्रमः ॥ ४ ॥ सेव्यमानोऽपि गन्धर्वैर्दिव्यसङ्गीतकारिभिः । अत्यप्सरोभिर्वारस्त्रीजनैश्च परिवारितः ॥ ५ ॥ दिव्याङ्गरागनेपथ्यदुकूलैश्च मनोरमैः । विभूष्यमाणसर्वाङ्गश्रीविशेषोऽपि सर्वदा ॥ ६ ॥ भूमिपालैः पाल्यमान शासनोऽपि दिवानिशम् । नित्यमक्षीणकोशोऽपि सदा सुस्थप्रजोऽपि हि ॥ ७ ॥ सर्वथा दुःखलेशस्याप्यनास्पदतया स्थितः । संसारवासवैराग्यं स भेजे तत्त्वविद्वरः ॥ ८ ॥ ॥ चतुर्भिः कलापकम् ॥ भवस्य छेदनायाथ गिरेरिव पवि हरिः । अग्रहीत्स परिव्रज्यां युगन्धरगुरोः पुरः ।। ९ ।। विविधाभिग्रहो दान्तो विहितेन्द्रियनिग्रहः । स्वविग्रहेऽप्यनाकाङक्षश्चिरं सोऽपालयद् व्रतम् ॥ १० ॥ महारत्नं महामूल्यैरिव स्थानैस्तु कैरपि । दुरर्जमर्जयामास तीर्थकृन्नाम कर्म सः ॥ ११ ॥ १ ध्वस्तो महामोह एव ध्वान्तो यया ताम् । २ मोह एव हिमानी तस्यां सूर्यातपसमानम् । ३ लक्ष्म्याः । ४ इंद्रः । ५ अनासक्तः । तृतीयं पर्व षष्ठः सर्गः श्रीचन्द्रप्रभ जिन चरितम् । पूर्वभवः । 1148 11
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy