________________
तृतीयं पर्व | पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ॥८८॥
पञ्चलक्षाणि कौमारे पृथिवीपालने पुनः । युक्ता विंशतिपूर्वाझ्या पूर्वलक्षाश्चतुर्दश ।। १२३ ।। न्यूनं विंशतिपूर्वाग्या पूर्वलक्षं पुनव्रते । इत्यायुः श्रीसुपार्श्वस्य पूर्वलक्षाणि विंशतिः ।। १२४ ।। श्री पद्मप्रभनिर्वाणात् सुपार्श्वस्वामिनिर्वृतिः । गतेष्वर्णवकोटीनां सहस्रेषु नवस्वभूत् ।। १२५ ॥
अच्युतप्रभृतयोऽथ सुरेन्द्राः स्वामिनो मुनिजनस्य च तस्य । अग्निसंस्करणपूर्वमकुर्वन् मोक्षपर्वमहिमानमखर्वम् ॥ १२६ ।।
सर्गः
| श्रीसुपार्श्व| जिनचरितम् ।
*SHASHASRASHAR
निर्वाणमहिमा ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीय पर्वणि सुपार्श्वस्वामिचरितवर्णनो
नाम पञ्चमः सर्गः ।
।। ८८ ॥
१ सागरोपमकोटीनाम् ।