________________
तृतीयं पर्व
पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ||८७॥
सर्गः श्रीसुपार्श्व
|जिन
चरितम् ।
तत्तीर्थजन्मा मातङ्गो नीलाङ्गो गजवाहनः । बिल्वधरं पाशधरं बिभ्राणो दक्षिणौ करौ ।। ११० ॥ दधद्वामौ च दोर्दण्डौ नकुलाङ्कुशधारिणौ । सुपार्श्वस्वामिनः पार्श्वेऽभवच्छासनदेवता ॥ १११ ।। तथोत्पन्ना शान्तादेवी स्वर्णरुग्गजवाहना । वरदं साक्षसूत्रं च बिभ्राणा दक्षिणौ भुजौ ॥ ११२ ॥ सशूलाभयदौ बाहू दधाना दक्षिणेतरौ । भर्तुःशासनदेव्यासीत्सदा सन्निधिवर्तिनी ॥११३ ॥ विजहार ततोऽन्यत्र स्वामी ग्रामपुरादिषु । बोधयन् भव्यभविनः पङ्कजानीव भास्करः ॥ ११४ ॥ साधुत्रिलक्षी साध्वीनां सहत्रिंशत्सहस्रिका । चतुर्लक्षी पूर्विणां तु सहस्रौ त्रिंशदन्वितौ ॥११५ ।। सहस्राणि नव पुनरवधिज्ञानधारिणाम् । सार्धेकनवतिशती मनःपर्ययशालिनाम् ।। ११६ ।। एकादशसहस्राणि केवलज्ञानिनां पुनः । वैक्रियलब्धिसहस्राः पञ्चदश त्रिशत्यपि ॥ ११७ ॥ अष्टौ च वादलब्धीनां सहस्राः सचतुःशताः । द्वे लक्षे सप्तपञ्चाशत् सहस्राः श्रावकाः पुनः ।। ११८ ॥ श्राविकाणां पञ्चलक्षी सहनैः सप्तभिर्वियुक् । परिवारेऽभवन् भर्तुः पृथ्वी विहरतः सतः ॥ ११९ ।। आ केवलान्नवमास्या विंशत्यङ्ग्या च वर्जिते । पूर्वलक्षे गते स्वामी गत्वा सम्मेतपर्वतम् ।। १२० ॥ जगत्स्वामी समं तत्र मुनीनां पञ्चभिः शतैः । तपः प्रपेदेऽनशनं सेव्यमानः सुरासुरैः ।। १२१ ॥
॥युग्मम् ॥ मासान्ते फाल्गुने कृष्णसप्तम्यां मूलगे विधौ । समं तैर्मुनिभिः स्वामी जगाम पदमव्ययम् ।। १२२ ।। १न्यूना ।
परिवारो | निर्वाणं च ।
।।८७ ॥