Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते
॥८६॥
तृतीयं पर्व | पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् ।
इहान्यत्वं भवेद् भेदस्तद्वैलक्षण्यलक्षणः । आत्मदेहादिभावानां साक्षादेव प्रतीयते ।। ९६ ।। देहाद्या इन्द्रियग्राह्या आत्मानुभवगोचरः । तदेतेषामनन्यत्वं कथं नामोपद्यते ? ।। ९७ ॥ आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपीड्यते ? ।। ९८ ।। सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारादावात्मपीडोपजायते ।। ९९ ॥ ये तु देहात्मनोर्भेदं सम्यगेव प्रपेदिरे । तेषां देहप्रहारादावपि नात्मा प्रपीड्यते ।। १०० ॥ भेदं विद्वान् न पीड्येत पितृदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ।। १०१ ।। अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव हि । स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ।। १०२ ।। सम्बन्धानात्मनो जन्तुर्यावतः कुरुते प्रियान् । तावन्तो हृदये तस्य जायन्ते शोकशङ्कवः ।। १०३ ।। सर्वमन्यदिदं तस्माज्जानीयात्पटुधीर्जनः । कस्यापि हि विनाशात्तन्न मुह्येत्तत्त्ववर्त्मनि ।। १०४ ।। अस्यन्ममत्वमृल्लेपं तुम्बीफलमिवाचिरात् । भवं तरति शुद्धात्मा परिव्रज्याधरो नरः ॥१०५ ।। एवं च देशनां श्रुत्वाऽबुध्यन्त बहवो जनाः । प्रव्रज्यां जगृहुः केऽपि श्रावकत्वमथापरे ॥ १०६ ॥ विदर्भाद्या गणभृतः पञ्चनवतिरभूवन् । ते चक्रुर्दादशाङ्गीं च स्वामिवागनुसारतः ॥१०७ ।। स्वामिनो देशनान्ते च विदर्भो गणभूद्वरः । स्वाम्यघ्रिपीठाध्यासीनो विदधे धर्मदेशनाम् ।। १०८ ।। विदर्भेऽपि गणधरे देशनाविरते सति । नमस्कृत्य प्रभु जग्मुः स्वं स्वं स्थानं सुरादयः ।। १०९ ।।
१ अभेदत्वम् । २ पूर्वपक्षोऽयम् । ३ ममत्वमेव मृद् मृत्तिका तस्या लेपम् अस्यन् - दूरी कुर्वन् । * दावपि पी । -जानन्नन्यत्र धी' ।
| देशना।
HASARASHRSHASHASARSHAS
॥८६॥

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384