Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते ||८४॥
तृतीयं पर्व पञ्चमः सर्गः श्रीसुपार्श्व
|जिनचरितम् ।
जयन् परीषहचमूताप गिरिरिवाभवत् । निराकाङ्क्षः शरीरेऽपि समः स्वर्णतृणादिषु ॥ १९ ॥ एकाकी मौननिरतो नित्यमेकान्तनित्यदृक् । विविधाभिग्रहरतोऽनासीनो निर्भयः स्थिरः ॥ ७० ॥ विविधाः प्रतिमाः कुर्वंश्छद्मस्थो ध्यानमास्थितः । नव मासान् जगन्नाथो विजहार वसुन्धराम् ॥७१ ॥
॥त्रिभिर्विशेषकम् ॥ विहरंश्चाययौ भूयः सहस्राम्रवणं प्रभुः । शिरीषमूले षष्ठेन तत्रास्थाप्रतिमाधरः ।। ७२ ॥ द्वितीयशुक्लध्यानान्ते वर्तमानो जगद्गुरुः । संसारस्येव मर्माणि घातिकर्माण्यघातयत् ।।७३ ॥ फाल्गुनस्य कृष्णषष्ठ्यां विशाखास्थे निशाकरे । केवलज्ञानमुत्पेदे सुपार्श्वस्वमिनस्तदा ।।७४ ।। सुरासुरेन्द्राः सद्योऽपि समागत्य नियुक्तवत् । चक्रुः समवसरणं स्वामिनो देशनाकृते ॥७५ ॥ पूर्वद्वारेण तत्राथ मोक्षद्वारं जगद्गुरुः । प्रविवेश यथास्तु द्वारैः सुरनरादयः ।।७६ ।। चतुर्धन्वशताग्रैकक्रोशोच्चं चैत्यपादपम् । तत्र प्रदक्षिणीचक्रे प्रभु कल्पपादपः ।।७७ ॥ “तीर्थाय नम” इत्युक्त्वा तत्र सिंहासनोत्तमे । उपाविशज्जगन्नाथोऽतिशयैरुपशोभितः ॥७८ ॥ पृथ्वीदेव्या तदा स्वप्ने ६ष्टं तादृग्महोरगम् । शक्रो विचक्रे भगवन्मूर्ध्नि छत्रमिवापरम् ।।७९ ॥ तदादि चाभूत्समवसरणेष्वपरेष्वपि । नाग एकफणः पञ्चफणो नवफणोऽथवा ।। ८० ॥ स्वामिनः प्रतिरुंपाणि देवा दिक्ष्वपरास्वपि । विकुर्वन्ति स्म ताशि तत्प्रभावेण भूयसा ॥८१ ।। सोऽपि भगवांस्तत्र यथास्थानमवास्थित । न स्थानव्यत्ययो जातु सामान्यस्यापि पर्षदि ॥ ८२ ।। . १ परीषहाणां चमूः सेना ताम् । २ भृत्यवत् । ३ प्रतिकृतीः । * अनुपविशन् – उर्ध्वं तिष्ठन्नेव इत्यर्थः ।।
केवलज्ञानम् ।
॥८४ ।।

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384