Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 346
________________ त्रिषष्टिशलाकापुरुषचरिते ॥८२॥ तृतीयं पर्व पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् । दत्से समस्तकल्याणैर्यत्सुखं श्वभ्रिणामपि । तिर्यग्नरामराणां तत्कथं नासि सुखप्रदः ॥ ४० ॥ अप्युद्योतो जगत्त्रय्यामस्मिञ्जन्मोत्सवे तव । उदेष्यत्केवलज्ञानतरणेररुणायते ॥ ४१ ॥ त्वत्प्रसादस्य सम्पर्कादिवैताः ककुभोऽखिलाः । प्रसादं कलयामासुरधुना परमेश्वर! ॥ ४२ ।। अमी च वान्ति सुखदाः पवनाः पावनाकृते ! । सुखदे त्वयि नाथे हि जगतां कः प्रतीपकृत् ? ॥४३ ॥ धिग नः प्रमादिनो धन्यान्यासनान्यपि तानि नः । देव! त्वज्जन्मकल्याणं चलित्वाऽज्ञापि यैः क्षणात् ॥४४ ॥ निदानं देव ! बध्नामि निषिद्धमपि सम्प्रति । त्वद्दर्शनफलं मेऽस्तु त्वयि भक्तिर्निरन्तरा ।। ४५ ॥ स्तुत्वैवं प्रभुमादाय शक्रः सत्वरमेत्य च । मुमोचालक्षितं पृथ्वीदेव्याः पार्वे यथास्थिति ।। ४६ ॥ प्राणिनः प्रीणयन् कारामोक्षणादिभिरद्भुतैः । महोत्सवं नृपोऽकार्षीदानन्दफलपादपम् ॥ ४७ ॥ गर्भस्थेऽस्मिन्सुपाद्मभूज्जननी यत्ततः प्रभोः । सुपार्श्व इत्यभिधानं प्रतिष्ठः प्रत्यतिष्ठिपत् ॥ ४८ ॥ शक्रसङक्रमिताङ्गुष्ठसुधापो ववृधे प्रभुः । सुधान्धसामपि वन्द्या अर्हन्तोऽस्तन्यपा यतः ॥ ४९ ॥ उत्तीर्योत्तीर्य चोत्सङ्गाच्चापलाच्छैशवोचितात् । वञ्चंवञ्चं मुहुर्धात्रीश्चिक्रीडेतस्ततः प्रभुः ॥५०॥ पणपूर्व क्रीडतश्च मर्त्यरुपान् सुरान् प्रभुः । जिगाय लीलया शक्ताः क्रीडायामपि केऽर्हताम् ।। ५१ ।। शैशवं व्यतिचक्राम क्रमेण परमेश्वरः । क्रीडन् विचित्रक्रीडाभिस्त्रियामामिव कामुकः ।। ५२ ।। धनुःशतद्वयोत्तुङ्गः सर्वलक्षणलक्षितः । प्रपेदे यौवनं स्वामी भूषणं रुपसम्पदः ।। ५३ ।। १ नारकाणामपि । २ उदयं प्राप्स्यत् यत्केवलज्ञानं तदेव तरणिः सूर्यस्तस्य । ३ दिशः । ४ प्रतिकूलकृत् । ५ चकार । ६ देवानां । ७ वंचयित्वा वंचयित्वा ८ प्रतिज्ञापूर्वकं । ९ रात्रिम् । * पवनाकृते! । पवित्री करणार्थम् इति । जन्म । ॥८२ ।।

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384