Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 345
________________ त्रिषष्टिशलाकापुरुषचरिते ॥८१॥ तृतीयं पर्व पञ्चमः सर्गः | श्रीसुपार्श्वजिनचरितम् । तीर्थकृज्जननीत्वेन भाविदासीत्वमस्तु तत् । रुपेणापि जितास्तस्या दास्योऽभूवन् सुराङ्गनाः ।। २६ ।। इतश्च नन्दिषेणस्य जीवो ग्रैवेयके स्थितः । षष्ठेऽपूरयदायुः स्वमष्टाविंशति सागरम् ।। २७ ।। च्युत्वा भाद्रपदे कृष्णाष्टम्यां राधागते विधौ । स जीवो नन्दिषेणस्य पृथ्व्याः कुक्षाववातरत् ।। २८ ।। सुखसुप्ता निशाशेषे पृथ्वीदेवी तदैक्षत । तीर्थकृद् जन्मपिशुनान् महास्वप्नांश्चतुर्दश ।। २९ ।। सुप्तमेकफणे पञ्चफणे नवफणेऽपि च । नागेतल्पे ददर्श स्वं देवी गर्भे प्रवर्धिनि ।।३० ।। ज्येष्ठस्य शुद्धद्वादश्यां विशाखास्थे निशाकरे । स्वर्णवर्णं स्वस्तिकाङ्कं सुखं सा सुषुवे सुतम् ।।३१ ॥ जिनजन्मावधिज्ञानाज्ज्ञात्वा तत्रैत्य सत्वरम् । षट्पञ्चाशद्दिक्कुमार्यः सूतिकर्माणि चक्रिरे ॥ ३२ ॥ तथैवागत्य शक्रोऽपि समादाय जगत्पतिम् । मेरुमूर्धन्यतिपाण्डुकम्बलामगमच्छिलाम् ॥ ३३ ॥ बालधार इवोत्सङ्गे निधाय परमेश्वरम् । रत्नसिंहासने तत्र निषसाद पुरन्दरः ।।३४ ।। तीर्थनाथं तीर्थतोयैस्त्रिषष्टिरथ वासवाः । क्रमेणास्नपयन्नब्धिवेला इव तटाचलम् ।।३५ ।। ईशानाङ्के निविश्येशं शक्रोऽप्यस्नपयद् जलैः । स्फाटिकोक्षविषाणोत्थैर्धारायन्त्रोत्थितैरिव ।। ३६ ॥ विलिप्य पूजयित्वा च वस्त्रालङ्करणादिना । जगत्पतिमिति स्तोतुं सौधर्मेन्द्रः प्रचक्रमे ॥३७ ।। अविज्ञेयस्वरुपे त्वय्यर्थवादाग्रहो मम । आदित्यमण्डलादाने फालदानं कपेरिव ॥ ३८ ॥ तथापि त्वत्प्रभावेण स्तोष्ये त्वां परमेश्वर !। स्यन्दन्ते चन्द्रकान्ता हि चन्द्रकान्तिप्रभावतः ।। ३९ ॥ १ चंद्रे । २ सूचकान् । ३ सर्पशय्यायां । ४ धरतीति धारः बालस्य धारः । ५ अविज्ञेयं स्वरुपं यस्य तस्मिन् । ६ अर्थवादस्य स्तुतेः आग्रहः । जन्म । ।। ८१ ॥

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384