________________
त्रिषष्टिशलाकापुरुषचरिते ॥८१॥
तृतीयं पर्व पञ्चमः सर्गः | श्रीसुपार्श्वजिनचरितम् ।
तीर्थकृज्जननीत्वेन भाविदासीत्वमस्तु तत् । रुपेणापि जितास्तस्या दास्योऽभूवन् सुराङ्गनाः ।। २६ ।। इतश्च नन्दिषेणस्य जीवो ग्रैवेयके स्थितः । षष्ठेऽपूरयदायुः स्वमष्टाविंशति सागरम् ।। २७ ।। च्युत्वा भाद्रपदे कृष्णाष्टम्यां राधागते विधौ । स जीवो नन्दिषेणस्य पृथ्व्याः कुक्षाववातरत् ।। २८ ।। सुखसुप्ता निशाशेषे पृथ्वीदेवी तदैक्षत । तीर्थकृद् जन्मपिशुनान् महास्वप्नांश्चतुर्दश ।। २९ ।। सुप्तमेकफणे पञ्चफणे नवफणेऽपि च । नागेतल्पे ददर्श स्वं देवी गर्भे प्रवर्धिनि ।।३० ।। ज्येष्ठस्य शुद्धद्वादश्यां विशाखास्थे निशाकरे । स्वर्णवर्णं स्वस्तिकाङ्कं सुखं सा सुषुवे सुतम् ।।३१ ॥ जिनजन्मावधिज्ञानाज्ज्ञात्वा तत्रैत्य सत्वरम् । षट्पञ्चाशद्दिक्कुमार्यः सूतिकर्माणि चक्रिरे ॥ ३२ ॥ तथैवागत्य शक्रोऽपि समादाय जगत्पतिम् । मेरुमूर्धन्यतिपाण्डुकम्बलामगमच्छिलाम् ॥ ३३ ॥ बालधार इवोत्सङ्गे निधाय परमेश्वरम् । रत्नसिंहासने तत्र निषसाद पुरन्दरः ।।३४ ।। तीर्थनाथं तीर्थतोयैस्त्रिषष्टिरथ वासवाः । क्रमेणास्नपयन्नब्धिवेला इव तटाचलम् ।।३५ ।। ईशानाङ्के निविश्येशं शक्रोऽप्यस्नपयद् जलैः । स्फाटिकोक्षविषाणोत्थैर्धारायन्त्रोत्थितैरिव ।। ३६ ॥ विलिप्य पूजयित्वा च वस्त्रालङ्करणादिना । जगत्पतिमिति स्तोतुं सौधर्मेन्द्रः प्रचक्रमे ॥३७ ।। अविज्ञेयस्वरुपे त्वय्यर्थवादाग्रहो मम । आदित्यमण्डलादाने फालदानं कपेरिव ॥ ३८ ॥ तथापि त्वत्प्रभावेण स्तोष्ये त्वां परमेश्वर !। स्यन्दन्ते चन्द्रकान्ता हि चन्द्रकान्तिप्रभावतः ।। ३९ ॥ १ चंद्रे । २ सूचकान् । ३ सर्पशय्यायां । ४ धरतीति धारः बालस्य धारः । ५ अविज्ञेयं स्वरुपं यस्य तस्मिन् । ६ अर्थवादस्य स्तुतेः आग्रहः ।
जन्म ।
।। ८१ ॥