________________
त्रिषष्टिशलाकापुरुषचरिते ॥८२॥
तृतीयं पर्व पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् ।
दत्से समस्तकल्याणैर्यत्सुखं श्वभ्रिणामपि । तिर्यग्नरामराणां तत्कथं नासि सुखप्रदः ॥ ४० ॥ अप्युद्योतो जगत्त्रय्यामस्मिञ्जन्मोत्सवे तव । उदेष्यत्केवलज्ञानतरणेररुणायते ॥ ४१ ॥ त्वत्प्रसादस्य सम्पर्कादिवैताः ककुभोऽखिलाः । प्रसादं कलयामासुरधुना परमेश्वर! ॥ ४२ ।। अमी च वान्ति सुखदाः पवनाः पावनाकृते ! । सुखदे त्वयि नाथे हि जगतां कः प्रतीपकृत् ? ॥४३ ॥ धिग नः प्रमादिनो धन्यान्यासनान्यपि तानि नः । देव! त्वज्जन्मकल्याणं चलित्वाऽज्ञापि यैः क्षणात् ॥४४ ॥ निदानं देव ! बध्नामि निषिद्धमपि सम्प्रति । त्वद्दर्शनफलं मेऽस्तु त्वयि भक्तिर्निरन्तरा ।। ४५ ॥ स्तुत्वैवं प्रभुमादाय शक्रः सत्वरमेत्य च । मुमोचालक्षितं पृथ्वीदेव्याः पार्वे यथास्थिति ।। ४६ ॥ प्राणिनः प्रीणयन् कारामोक्षणादिभिरद्भुतैः । महोत्सवं नृपोऽकार्षीदानन्दफलपादपम् ॥ ४७ ॥ गर्भस्थेऽस्मिन्सुपाद्मभूज्जननी यत्ततः प्रभोः । सुपार्श्व इत्यभिधानं प्रतिष्ठः प्रत्यतिष्ठिपत् ॥ ४८ ॥ शक्रसङक्रमिताङ्गुष्ठसुधापो ववृधे प्रभुः । सुधान्धसामपि वन्द्या अर्हन्तोऽस्तन्यपा यतः ॥ ४९ ॥ उत्तीर्योत्तीर्य चोत्सङ्गाच्चापलाच्छैशवोचितात् । वञ्चंवञ्चं मुहुर्धात्रीश्चिक्रीडेतस्ततः प्रभुः ॥५०॥ पणपूर्व क्रीडतश्च मर्त्यरुपान् सुरान् प्रभुः । जिगाय लीलया शक्ताः क्रीडायामपि केऽर्हताम् ।। ५१ ।। शैशवं व्यतिचक्राम क्रमेण परमेश्वरः । क्रीडन् विचित्रक्रीडाभिस्त्रियामामिव कामुकः ।। ५२ ।। धनुःशतद्वयोत्तुङ्गः सर्वलक्षणलक्षितः । प्रपेदे यौवनं स्वामी भूषणं रुपसम्पदः ।। ५३ ।।
१ नारकाणामपि । २ उदयं प्राप्स्यत् यत्केवलज्ञानं तदेव तरणिः सूर्यस्तस्य । ३ दिशः । ४ प्रतिकूलकृत् । ५ चकार । ६ देवानां । ७ वंचयित्वा वंचयित्वा ८ प्रतिज्ञापूर्वकं । ९ रात्रिम् । * पवनाकृते! । पवित्री करणार्थम् इति ।
जन्म ।
॥८२ ।।