________________
त्रिषष्टिशलाकापुरुषचरिते
॥८३॥
तृतीयं पर्व पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् ।
दीक्षा।
दाक्षिण्येन प्रभुः पित्रोर्नुपपत्रीरुपायत । अपि त्रिलोकनाथानां मान्यं हि पितशासनम् ।। ५४ ।। भोग्यं कर्म क्षपयितुं रमणीभिः समं विभुः । अरस्त भगवन्तो हि कर्मच्छेदाय तत्पराः ।। ५५ ।। ततो गतेषु कौमारे पूर्वलक्षेषु पञ्चसु ! अभ्यर्थ्यारोपितं पित्रा प्रभुभूभारमुद्दधे ।। ५६ ॥ विंशत्यङ्गैः समधिकाः पूर्वलक्षाश्चतुर्दश । व्यतीयाय जगन्नाथः पृथिवीं परिपालयन् ।। ५७ ॥ उपलक्ष्य च संसारविरक्तं स्वामिनो मनः । उपस्वाम्याययुर्ब्रह्मलोकालोकान्तिकामराः ॥५८ ।। न बोध्यसे स्वयम्बुद्धः स्वभक्त्या स्मार्यसे पुनः । तीर्थं प्रवर्तय स्वामिन्नित्युक्त्वा ते दिवं ययुः ।। ५९ ॥ सुपार्श्वस्वाम्यपि ततो दीक्षादानोत्सवोत्सुकः । दानचिन्तामणिर्दानं ददौ संवत्सरावधि ॥६० ॥ सांवत्सरिकदानान्ते वासवैश्चलितासनैः । दीक्षाभिषेको विदधे सुपार्श्वस्वामिनस्ततः ।। ६१ ॥ अथो मनोहरां नाम नानारत्नमनोहराम् । अध्यारुरोह शिबिकां शिवंगामी जगत्पतिः ।। ६२ ।। अन्वीयमानो भगवान् सुरासुरनरेश्वरैः । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ।।६३ ॥ त्रिजगभूषणं स्वामी तत्रौज्झद्भूषणादिकम् । शक्रन्यस्तं देवदूष्यं स्कन्धदेशे दधार च ।। ६४ ।। ज्येष्ठशुद्धत्रयोदश्यां राधायां पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत्प्रभुः ।। ६५ ॥ मनःपर्ययमुत्पेदे तुर्यं ज्ञानं जगत्पतेः । नारकाणामपि तदा सुखं क्षणमजायत ।। ६६ ॥ पाटलीखण्डनगरे महेन्द्रनृपसद्मनि । द्वितीयेऽह्नि प्रभुश्चक्रे परमान्नेन पारणम् ।। ६७ ॥ विदधुर्वसुधारादि देवाश्चाद्भुतपञ्चकम् । रत्नपीठं महेन्द्रस्तु यत्र तस्थौ जगत्पतिः ।। ६८ ॥
१ परिणिनाय । २ स्वामिनः समीपम् । ३ शिवं मोक्षं गछतीति अथवा शिवं गमिष्यतीति भविष्यदर्थे । ४ अनुगम्यमानः ।
॥८३ ॥