Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 319
________________ त्रिषष्टिशलाकापुरुषचरिते 114411 भुवनत्रितयाधारभूतं गर्भं दधार तम् । निगूढं मङ्गला देवी निधानमिव मेदिनी ।। १४२ ।। इतश्च कश्चिदप्याढ्यस्ततः पुर्या वणिज्यया । सदृग्भार्याद्वययुतो दूरदेशान्तरं ययौ ।। १४३ ।। तस्य मार्गस्थितस्यैवैकस्यां समभवत्सुतः । उभाभ्यां च सपत्नीभ्यां निर्विशेषमवर्ध्यत ।। १४४ ॥ अर्जयित्वा धनं देशान्तरात् व्यावृत्तवानथ । वर्त्मन्येव विपेदे स दैवस्य विषमा गतिः ।। १४५ ।। तस्य द्वे अपि ते भार्ये उदश्रुवदने शुचा । विरचय्याग्निसंस्कारं चक्राते और्ध्वदेहिकम् ।। १४६ ।। ततः पुत्रश्च वित्तं च मदीये इति भाषिणी । पुत्रमात्रा सहान्या तु मायिन्यकलहायत ।। १४७ ॥ क्षेममेका परा योगमिच्छन्त्यौ पुत्रवित्तयोः । अयोध्यामीयतुः शीघ्रं सूनोर्मातृविमातरौ ।। १४८ ॥ तत्र च स्वाऽन्यकुलयोर्धर्माधिकरणेऽपि च । डुढौकाते उभे च्छिन्नो न तद्वादो मनागपि ।। १४९ ।। ततस्ते उपतस्थाते विवदन्त्यौ नरेश्वरम् । उपवेश्य सभां राज्ञा पृष्टे ते वादकारणम् ।। १५० ।। ऊचे विमाता वादोऽयमाख्यातः संकले पुरे । किन्त्वेनं नाच्छिदत् कोऽपि कः परव्यसनेऽर्तिमान् ॥ १५१ ॥ सुखिनं परसौख्येन परदुःखेन दुःखिनम् । पृथिव्यां धर्मराजं त्वामिदानीमस्म्युपस्थिता ।। १५२ ।। ममौरसोऽयं तनयः सदृग् मे वर्द्धितो मया । वित्तं ममैतद्यस्या हि पुत्रस्तस्या धनादिकम् ॥ १५३ ।। पुत्रमाताप्युवाचैवं पुत्रोऽसौ मे धनं च मे । सपत्नी मेऽनपत्यासौ लोभेन कलहायते ।। १५४ ॥ प्राक् पुत्रं पालयन्त्येषा न निषिद्धा मयार्जवात् । पादान्ते शायिता स्नेहादुच्छीर्षग्राहिणी ह्यसौ ।। १५५ ।। तदुत्तिष्ठ स्वनिर्णेतुं विवादस्त्वयि तिष्ठते । राज्ञा दृष्टः कुदृष्टो वा निर्णयो ह्यपुनर्भवः ।। १५६ ॥ १ गुप्तं क्रियाविशेषणम् । २ धनिकः । ३ व्यापारेण । ४ दाहादिकम् । ५ न्यायाधिकारिमंदिरे । ६ जग्मतुः । * सुखितं । दुःखितम् । ৬ तृतीयं पर्व तृतीयः सर्गः श्रीसुमति जिन चरितम् । जिनमात्रा विवादभञ्जनम् । ।। ५५ ।।

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384