________________
त्रिषष्टिशलाकापुरुषचरिते
114411
भुवनत्रितयाधारभूतं गर्भं दधार तम् । निगूढं मङ्गला देवी निधानमिव मेदिनी ।। १४२ ।। इतश्च कश्चिदप्याढ्यस्ततः पुर्या वणिज्यया । सदृग्भार्याद्वययुतो दूरदेशान्तरं ययौ ।। १४३ ।। तस्य मार्गस्थितस्यैवैकस्यां समभवत्सुतः । उभाभ्यां च सपत्नीभ्यां निर्विशेषमवर्ध्यत ।। १४४ ॥ अर्जयित्वा धनं देशान्तरात् व्यावृत्तवानथ । वर्त्मन्येव विपेदे स दैवस्य विषमा गतिः ।। १४५ ।। तस्य द्वे अपि ते भार्ये उदश्रुवदने शुचा । विरचय्याग्निसंस्कारं चक्राते और्ध्वदेहिकम् ।। १४६ ।। ततः पुत्रश्च वित्तं च मदीये इति भाषिणी । पुत्रमात्रा सहान्या तु मायिन्यकलहायत ।। १४७ ॥ क्षेममेका परा योगमिच्छन्त्यौ पुत्रवित्तयोः । अयोध्यामीयतुः शीघ्रं सूनोर्मातृविमातरौ ।। १४८ ॥ तत्र च स्वाऽन्यकुलयोर्धर्माधिकरणेऽपि च । डुढौकाते उभे च्छिन्नो न तद्वादो मनागपि ।। १४९ ।। ततस्ते उपतस्थाते विवदन्त्यौ नरेश्वरम् । उपवेश्य सभां राज्ञा पृष्टे ते वादकारणम् ।। १५० ।। ऊचे विमाता वादोऽयमाख्यातः संकले पुरे । किन्त्वेनं नाच्छिदत् कोऽपि कः परव्यसनेऽर्तिमान् ॥ १५१ ॥ सुखिनं परसौख्येन परदुःखेन दुःखिनम् । पृथिव्यां धर्मराजं त्वामिदानीमस्म्युपस्थिता ।। १५२ ।। ममौरसोऽयं तनयः सदृग् मे वर्द्धितो मया । वित्तं ममैतद्यस्या हि पुत्रस्तस्या धनादिकम् ॥ १५३ ।। पुत्रमाताप्युवाचैवं पुत्रोऽसौ मे धनं च मे । सपत्नी मेऽनपत्यासौ लोभेन कलहायते ।। १५४ ॥ प्राक् पुत्रं पालयन्त्येषा न निषिद्धा मयार्जवात् । पादान्ते शायिता स्नेहादुच्छीर्षग्राहिणी ह्यसौ ।। १५५ ।। तदुत्तिष्ठ स्वनिर्णेतुं विवादस्त्वयि तिष्ठते । राज्ञा दृष्टः कुदृष्टो वा निर्णयो ह्यपुनर्भवः ।। १५६ ॥
१ गुप्तं क्रियाविशेषणम् । २ धनिकः । ३ व्यापारेण । ४ दाहादिकम् । ५ न्यायाधिकारिमंदिरे । ६ जग्मतुः । * सुखितं । दुःखितम् ।
৬
तृतीयं पर्व
तृतीयः
सर्गः श्रीसुमति
जिन
चरितम् ।
जिनमात्रा
विवादभञ्जनम् ।
।। ५५ ।।