________________
त्रिषष्टिशलाकापुरुषचरिते 11५४॥
तृतीयं पर्व तृतीयः सर्गः श्रीसुमतिजिनचरितम् ।
तत्रोद्यानेष्वरघट्टशीकरासारमालिषु । शीतभीत्येव नो जातु प्रविशन्त्यर्करश्मयः ।। १२७ ॥ इक्ष्वाकुवंशतिलकस्तस्यामासीन्महीपतिः । मेघो नाम महामेघ इव विश्वाभिनन्दकः ।। १२८ ॥ सदैवोदच्यमानापि कृतार्थीकर्तुमर्थिनः । सिरावारीव ववृधे तस्य श्रीरतिशायिनी ।। १२९ ।। देवतामिव तं नेमुः पञ्चाङ्गस्पृष्टभूतलाः । वस्त्रालङ्काररत्ना_रानचुंश्च महीभुजः ।। १३० ।। प्रतापः प्रसरंस्तस्य माध्यन्दिन इवार्यमा । द्विषां सोचयामास देहच्छायामिव श्रियम् ॥ १३१ ।। ऋद्ध्या महत्या शक्त्या च प्रभावेण च भूयसा । चतुष्षष्टेः स इन्द्राणां पञ्चषष्टितमोऽन्वभात् ॥ १३२ ।। तस्यासीन्मङ्गला नाम मङ्गलानां निकेतनम् । सच्छीलकेतना पत्नी कुललक्ष्मीरिवाङ्गिनी ।। १३३ ।। पत्युः सा हृदयेऽवात्सीत् तस्याश्च हृदये पतिः । बहिरङ्गस्तयोश्चासीद्वासो वासगृहादिषु ।। १३४ ॥ उद्यानादिप्रदेशेऽपि सञ्चरन्ती गृहेऽपि वा । अधिकं देवतातोऽपि भर्तारं ध्यायति स्म सा ॥ १३५ ।। रुपलावण्यसौभाग्यदासीकृतसुराङ्गना । दासीचक्रे मुखेनेन्दुमपि सा वरलोचना ।। १३६ ॥ विशदे रुपलावण्ये तस्याश्चातिशयान्विते । परस्परमभूष्येतामङ्गुलीयमणी इव ॥ १३७ ।। पौलोम्येव महेन्द्रस्य नरेन्द्रस्य तया समम् । उपभुजानस्य भोगानभवत् प्रीतिरक्षया ॥१३८ ॥ इतः पुरुषसिंहस्य वैजयन्तविमानगः । जीवः स्वायुस्त्रयस्त्रिंशदब्धिसङ्ख्यामपूरयत् ।। १३९ ॥ श्रावणस्याथ शुक्लायां द्वितीयायां मघागते। मृगावे मङ्गलादेव्याः कुक्षाववततार सः ।। १४० ।। ईक्षाञ्चक्रे तदानीं च तीर्थकृज्जन्मसूचकान् । गजादीन्मङ्गलादेवी महास्वप्नांश्चतुर्दश ।। १४१ ॥ १ जलघटीयंत्रान्निर्गतानां बिंदूनां आसारः वृष्टिः तेन मालिनस्तेषु । २ कूपायुद्धृतजलमार्गः सिरा । ३ इंद्राण्या । ४ दैवादपि । ५ अक्षयाप्रीतिः । * ° मानतः । = °णस्य च शु।
GEOGRAAISAGISHARAHA***
|| गर्भा
वतरणम् ।
।। ५४ ॥