________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥५३॥
कुष्ठादिव्याधिजा बाधा गुप्तिवासोऽङ्गकर्तनम् । त्वचनं ज्वालनं शीर्षच्छेदादि च नृणामपि ।। ११३ ।। विप्रयोगः प्रियजनैः शत्रुतश्च पराभवः । च्यवनज्ञानजं दुःखं दुःसहं नाकिनामपि ।। ११४ ।। तेनैवं पितरौ प्रोक्तौ साधु साध्विति वादिनौ । मुदितावनुमेनाते व्रतादानाय तं ततः ।। ११५ ॥ सप्रमोदं ततः पित्रा कृतनिष्क्रमणोत्सवः । दीक्षार्थी तं मुनिं सोऽगात् फलार्थीव वनस्पतिम् ।। ११६ ।। आददे मुनिपादान्ते सामायिकमुदीरयन् । प्रव्रज्यां पुरुषसिंहो भवाब्धितरणे तेरीम् ॥ ११७ ॥ प्रमादपरिहारेण रक्षेच्छुः सर्वदेहिनाम् । स ध्ढं पालयामास प्रव्रज्यां राज्यवन्नृपः ।। ११८ । विंशतिस्थानकानां च स्थानैः कतिपयैरपि । अर्जयामास विशदं तीर्थकृन्नाम कर्म सः ॥ ११९॥ चिरं विहृत्य कालं च कृत्वानशनकर्मणा । विमाने वैजयन्ते स महर्द्धिरमरोऽभवत् ।। १२० ।। इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । विनीतेत्यस्ति नगरी गरीयः सम्पदास्पदम् ।। १२१ ।। राजते राजतैस्तत्र प्राकारः कपिशीर्षकैः । सर्वद्वीपान्तरानीतेन्दुबिम्बरचितैरिव ।। १२२ ।। नानारत्ननिधानं सा रुप्यवप्रेण राजभिः । रक्षार्थं कुण्डलीभूतशेषेणेव निषेविता ॥ १२३ ॥ सौधेषु रत्नवलभीसङक्रान्तस्तत्र चन्द्रमाः । लिह्यते गृहमार्जारैर्दधिपिण्डधिया मुहुः ।। १२४ ॥ अर्हन् देवो गुरुः साधुरिति क्रीडाशुका अपि । पठन्ति तस्यां शृण्वन्तस्तदेव हि गृहे गृहे ।। १२५ ।। प्रतिवासगृहं तत्र दह्यमानागरूद्भवाः । धूमलेखा वितन्वन्ति तमालवनमम्बरे ।। १२६ ।।
१ कारागृहवासः । २ त्वचाच्छेदनम् । ३ वियोगः । ४ वृक्षम् । ५ नावं । ६ महतीनां समृद्धीनां स्थानम् । ७ रुप्यमयैः । ८ सर्वद्वीपांतरेभ्य आनीतानि चंद्रबिंबानि तैः रचितैः ।
तृतीयं पर्व
तृतीयः सर्गः
| श्रीसुमतिजिन
चरितम् ।
पूर्वभवचरितम् ।
॥ ५३ ॥