________________
त्रिषष्टिशलाका
पुरुषचरिते
114211
नित्योद्युक्तो निर्ममश्चाकिञ्चनो गुणतत्परः । धारयेत्समितीः पञ्च तिस्रो गुप्तीश्च सर्वदा ।। १०० ।। मासादिकाश्च प्रतिमा विधातव्या यथाविधि । अभिग्रहा द्रव्यक्षेत्रकालभावानुगा अपि ।। १०१ ।। यावज्जीवितमस्नानं भूशय्या केशलुञ्चनम् । शरीरस्याप्रतिकर्म वासो गुरुकुले सदा ।। १०२ ।। परीषहोपसर्गाणां सहनं सानुमोदनम् । अष्टादशानां शीलाङ्गसहस्राणां च धारणम् ।। १०३ ।। प्रव्रज्यायामुपात्तायां सुकुमार ! कुमारक ! । तदेते लोहचणकाश्चर्वणीया निरन्तरम् ।। १०४ ।। बाहुभ्यां तरणीयोऽयमपारो मकराकैरः । निशातखङ्गधारासु कार्यं चङक्रमणं क्रमैः ।। १०५ ।। पोतव्या ज्वलनज्वाला मेरुस्तोल्यस्तुलाधृतः । उत्पूरा च प्रतिश्रोतस्तरणीया सरिद्वरा ।। १०६ ।। एकाकिना च जेतव्यं बलवद्विद्विषद्बलम् । विधातव्यो भ्रमच्चक्रे राधावेधश्च खल्वहो ! ।। १०७ ।। ॥ दशभिः कुलकम् ॥ महत् सत्वं, महद् धैर्यं महती धीर्महद् बलम् । प्रव्रज्याया उपात्ताया यदाऽऽजन्मापि पालनम् ॥ १०८ ॥ तदाकर्ण्य कुमारोऽपि ससौष्ठवमभाषत । पूज्यपादा एवमेतत् प्रव्रज्येयं यदीदृशी ।। १०९ ।। किन्तु विज्ञपयाम्येकमंशः शततमोऽपि किम् । भववाससमुत्थानां कष्टानामिह दृश्यते ।। ११० ।। तथाहि दूरे तिष्ठन्तु साक्षान्नरकवेदनाः । वचनैदुर्वचा एव दुःश्रवाः श्रवणैरपि ।। १११ ।। इहापि दृश्यते लोके तिरश्चामकृतागसाम् । नितान्तं बन्धनच्छेदतर्जनाद्यतिदुःसहम् ।। ११२ ।।
१ असत्कारः । २ दुःखानामुपद्रवाणां च सहनम् । ३ समुद्रः । ४ पादैः । ५ पेया । ६ अग्निज्वाला । ७ निरपराधानाम् । * च्चक्ररा° । = चर्तुभिः कलापकम् ।
तृतीयं पर्व
तृतीयः
सर्गः
श्रीसुमतिजिन
चरितम् ।
पूर्वभवचरितम् ।
।। ५२ ।।