________________
त्रिषष्टिशलाका
पुरुषचरिते
॥५१॥
तृतीयं पर्व तृतीयः सर्गः श्रीसुमति|जिनचरितम् ।
निर्ममत्वं शरीरादावप्यकिञ्चनता मता । तपस्तु द्विविधं बाह्यमान्तरं चेति तद्यथा ।। ८५ ।। अनशनमौनोदर्य वृत्तेः संक्षेपणं तथा । रसत्यागस्तुनुक्लेशो लीनतेति बहिस्तपः ।। ८६ ।। प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं षोढेत्याभ्यन्तरं तपः ।। ८७ ।। शान्तिः शक्तावशक्तौ वा सहन क्रोधनिग्रहात् । मददोषपरीहारो मार्दवं माननिर्जयात् ।। ८८ ॥ मायाजयादार्जवं वाङ्मनःकायैरवक्रता । मुक्तिश्च तृष्णाविच्छेदो बाह्याभ्यन्तरवस्तुषु ।। ८९ ॥ इत्यं दशविधो धर्मः संसारोत्तारणक्षमः । जगत्यवाप्यते पुण्यैश्चिन्तामणिरिवानघः ।। ९० ॥ श्रुत्वा पुरुषसिंहोऽपि सप्रश्रयमदोऽवदत् । रोरस्येव निधानं मे धर्मोऽयं साधु दर्शितः ॥ ९१ ॥ किन्वसौ गृहवासस्थैरनुष्ठातुं न शक्यते । गृहवासो हि संसारतरोर्दोहदमुत्तमम् ।। ९२ ।। प्रव्रज्यां धर्मराजस्य राजधानी प्रयच्छ मे । भगवन् ! भवदुर्गामवासादुद्विग्नवानहम् ।। ९३ ॥ अथोचे भगवानेवं सूरिविनयनन्दनः । मनोरथोऽपि ते साधुः साधकः पुण्यसम्पदाम् ॥ ९४ ॥ महासत्व ! महाबुद्धे ! विवेकिन् ! दृढनिश्चय ! ।योग्योऽसि व्रतभारस्य दास्यामस्त्वत्समीहितम् ॥९५ ॥ आपृच्छस्व परं गत्वा पितरौ पुत्रवत्सलौ । यतस्तावेव जगति गुरू प्रथमतो नृणाम् ।। ९६ ॥ ततः स गत्वा पितरौ प्रणम्य च कृताञ्जलिः । मां व्रतायानुमन्येथामेवमुच्चय॑जिज्ञपत् ।। ९७ ॥ इत्यूचतुश्च तौ युक्ता प्रव्रज्या वत्स ! किं त्विह । उद्घोढव्यः पञ्चमहाव्रतभारोऽतिदुर्वहः ।। ९८ ।। निर्ममत्वं स्वदेहेऽपि विरती रात्रिभोजनात् । द्विचत्वारिंशता दोषैर्मुक्तः पिण्डश्च भोजने ।। ९९ ॥ १ तदाख्यं तपः यत्राहारस्य क्रमेणाल्पत्वं क्रियते । २ देहकष्टरुपं । ३ सेवा । ४ कायोत्सर्गः । ५ निर्धनस्य । ६ पाल्यः । ७ विरमणम् ।
पूर्वभवचरितम् ।
॥५१ ॥