________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥५०॥
तदद्य दिष्ट्या दृष्टोऽयं पुण्यैः पुण्यानुबन्धिभिः । प्रीतिदायी गुरुरिव मातेव च पितेव च ।। ७१ ॥ कुमारश्चिन्तयित्वैवमुपसृत्य च सत्वरम् । ववन्दे हृदयानन्दं मुनिं विनयनन्दनम् ॥ ७२ ॥ कल्याणकन्दलोद्भेदमेघवृष्टिसमानया । मुनिरानन्दयामास धर्मलाभाशिषाथ तम् ।। ७३ ।। भूयः कुमारस्तं नत्वा मुनिमेवमभाषत । चित्रीयसे व्रतधरो नवयौवनवानपि ।। ७४ ।। विषयाणां विमुखोऽसि वयस्यत्रापि यत्ततः । विद्मस्तेषां दुर्विपाकं किम्पाकानामिव ध्रुवम् ॥ ७५ ॥ सारमत्र हि संसारे किं च मन्ये न किञ्चन । इच्छं तत्परिहारायोत्तिष्ठन्ते यद्भवाध्शाः ।। ७६ ।। संसारतरणोपायं तन्ममापि समादिश । मां नय त्वं स्वेन पथा सार्थवाह इवाध्वगम् ॥ ७७ ॥ क्रीडार्थमागतेनेह त्वं प्राप्तोऽसि महामुने ! । कर्करान्वेषकेणेव माणिक्यं पर्वतावनौ ॥ ७८ ॥ एवमुक्तः कुमारेण मारारिः स महामुनिः । आबभाषे नवाम्भोदघोषगम्भीरया गिरा ।। ७९ ।। यौवनैश्वर्यरुपादिमदस्थानानि शान्तये । मान्त्रिकस्येव भूतानि पदातित्वाय साधनात् ॥ ८० ॥ संसारसिन्धुतरणे यानपत्रमनैर्गलम् । भगवद्भिः समाम्नातो यतिधर्मोऽयमुच्चकैः ॥ ८१ ॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिर्मार्दवमृजुता मुक्तिश्च दशधेति सः ।। ८२ ।। प्राणातिपातव्यावृत्तिरुपः संयम ईरितः । मृषावादपरीहारस्वरुपं सूनृतं पुनः ॥ ८३ ॥ शौचं संयमसंशुद्धिरदत्तादानवर्जनात् । उपस्थसंयमो ब्रह्म नवगुप्तिसमन्वितम् ॥ ८४ ॥
१ कल्याणांकुरस्योत्पादने मेघवृष्टिसदृशया । २ अनिष्टपरिणामम् । ३ मारस्य कामदेवस्य अरिः । ४ नौः । ५ अप्रतिबंधकम् । ६ कथितः । ७ अपरिग्रहता । + साधु ते । साधने ।
तृतीयं पर्व
तृतीयः
सर्गः श्रीसुमति
जिनचरितम् ।
पूर्वभवचरितम् ।
।। ५० ।।