________________
त्रिषष्टिशलाकापुरुषचरिते
॥५६॥
HARSHASH
तृतीयं पर्व तृतीयः
सर्गः
श्रीसुमतिजिनचरितम् ।
उभाभ्यामिति विज्ञप्तो जगाद जगतीपतिः । द्वे अप्येते सुसश्यावेकवृन्तच्युते इव ।। १५७ ॥ अन्योऽन्यं वैसश्ये हि यस्याः साश्यभाग्भवेत् । तस्याः पुत्रोऽनुमीयेत द्वयोः सश एष नु ।। १५८ ॥ न वक्तुमपि जानाति बाल्यादेषोऽपि दारकः । असौ माता विमाताऽसाविति ज्ञाने तु का कथा?|| १५९ ॥ दुर्निर्णयार्थचकितस्येत्थं निगदितोऽपि हि । जज्ञे राज्ञोऽथ मध्याह्नो नित्यकृत्यान्तरोचितः ।।१६० ॥ पारिषद्यैरथेत्यूचे मासैः षड्भिरपि प्रभो । विवादोऽभेदि नास्माभिर्वज्रग्रन्थिरिवानयोः ।। १६१ ॥ इदानीं नित्यकृत्यानां क्षणो वो माऽतिवर्तताम् । क्षणान्तरे विवादोऽयं विचार्यः स्वामिना पुनः ।। १६२ ।। एवमस्त्विति राजापि निगद्य व्यसृजत्सभाम् । कृत्वानन्तरकृत्यानि चान्तरन्तःपुरं ययौ ।। १६३ ।। विज्ञप्तो मङ्गलादेव्या तत्र चैवं महीपतिः । स्वामिन् ! मध्याह्नकृत्यानामतिवेलाऽभवत्कुतः ।। १६४ ॥ तयोर्विवादवृत्तान्तो राज्य राज्ञाऽप्यकथ्यत । गर्भप्रभावात् सुमती राज्यप्येवमभाषत ।। १६५ ॥ स्त्रीणां विवादो निर्णेतुं स्त्रीभिरेव हि युज्यते । तत्करिष्याम्यहं देव ! विवादच्छेदनं तयोः ॥ १६६ ॥ राज्ञा सविस्मयं देव्या सममागत्य पर्षदि । आनायिते ततस्ते तु पृष्टे पूर्ववदूचतुः ।। १६७ ।। राज्ञी भाषामुत्तरं च विचार्यैवमवोचत । ज्ञानत्रयधरस्तीर्थकरोऽस्त्येष ममोदरे ॥१६८ ॥ स प्रसूतो जगन्नाथोऽमुष्याशोकतरोस्तले । निर्णयं दास्यते तस्मात् प्रतीक्षेथामुभे अपि ।। १६९ ।।
ओमित्यूचे विमाता तु माता त्वेवमवोचत । अहमार्गमयिष्ये न महादेवि मनागपि ।। १७० ॥ सर्वज्ञमाता भवती करोत्वद्यैव निर्णयम् । सपत्नीसात् करिष्यामि नेयत्कालं स्वमात्मजम् ॥ १७१ ।। १ असादृश्ये । २ निर्णयाभावाच्चकितस्य । ३ सभासद्भिः । ४ समयः । ५ सभायाम् । ६ आहूते । ७ उत्पन्नः । ८ प्रतीक्षां करिष्ये । *°भ्यामपि वि' I = स्त्रीणामेव ।
जिनमात्रा विवाद
भञ्जनम् ।
A
॥५६ ॥
RE