Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 329
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥६५॥ चतुर्थः सर्गः |श्रीपद्मप्रभ|जिनचरितम् । | पूर्वभवः । त्यजन्त्येते न यावन्मां पुण्यपाकक्षयादिह । तावत् पौरुषमालम्ब्य त्यजाम्येतानसंशयम् ॥ १२ ॥ एवं विचिन्त्य सुचिरं विवेकमणिरोहणः । धाराधिरुढवैराग्यो राज्यं पुत्राय दत्तवान् ॥१३॥ पिहिताश्रवसूरीणां पादपद्मान्तमेत्य सः । उपाददे परिव्रज्यां मोक्षव्रज्यामहारथीम् ॥ १४ ।। त्रिगुप्तिः पञ्चसमितिर्निर्ममो निष्परिग्रहः । निशितं खगधारावच्चिरं सोऽपालयद् व्रतम् ।। १५ ।। स विंशतिस्थानकेभ्यः स्थानः कतिपयैरपि । आर्जयत् तीर्थकृन्नाम कर्म निर्मलमानसः ॥ १६ ॥ शुभध्यानपरः स्वायुः क्षपयित्वा महामनाः । ग्रैवेयकेऽभून्नवमे महर्द्धिरमरोऽथ सः ॥१७॥ इतश्च जम्बूद्वीपान्तर्वर्षेऽत्र भरताभिधे । कौशाम्बीत्यस्ति नगरी वत्सदेशस्य मण्डनम् ॥ १८ ॥ तत्रोच्चतरचैत्याग्रसिंहाभ्यर्णे परिभ्रमन् । त्रस्यताकुरङ्गेण यातीन्दुर्निष्कलकत्ताम् ।। १९ ।। तत्रावासगृहेषूच्चैधूपधूमा वितन्वते । युग्मयूनां रतभ्रष्टांशुकानामंशुकश्रियम् ।। २० ॥ स्वस्तिकन्यस्तमुक्तासु तत्र प्रतिगृहं शुकाः । चञ्च्वाघातं वितन्वन्ति दाडिमीबीजशङ्कया ॥२१॥ श्रीमान् सर्वो जनस्तत्र नान्यस्वं कोऽपि लुण्टति । उद्यानकुसुमामोदस्योल्लुण्टाकः परं मरुत् ।। २२ ॥ आसीत्तत्र धरो राजा धरायास्तापनोदनात् । धारणाच्चाप्यधरयन् धाराधरधराधरान् ।।२३ ॥ न भूपाः खण्डयामासुस्तस्याज्ञां क्षितिमण्डले । पुष्पसजमिवाखण्डां दधुः शिरसि किन्तु ते ॥ २४ ॥ कोदण्डोद्दण्डोदोर्दण्डोऽप्येष नो दण्डचण्डताम् । अदर्शयत् किन्तु सौम्यस्तस्थौ भद्र इव द्विपः ॥ २५ ॥ १ विवेक एव मणयस्तेषां रोहणो गिरिः । २ वर्धमानवैराग्यवान् । ३ मोक्षमार्गे महारथसशीम् । ४ लांछनभूतमृगेण । ५ दंपतीनाम् । ६ मैथुने वस्त्ररहितानाम् ।७ मेघान् पर्वतांश्च । ८ धनुषा प्रचण्डौ दोदण्डौ यस्य । -ताङ्गकु । * तत्र वा", -धरणा'धारणं च व्यवस्थापनम् इत्यर्थः । ॥६५॥

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384