________________
तृतीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥६५॥
चतुर्थः सर्गः |श्रीपद्मप्रभ|जिनचरितम् ।
| पूर्वभवः ।
त्यजन्त्येते न यावन्मां पुण्यपाकक्षयादिह । तावत् पौरुषमालम्ब्य त्यजाम्येतानसंशयम् ॥ १२ ॥ एवं विचिन्त्य सुचिरं विवेकमणिरोहणः । धाराधिरुढवैराग्यो राज्यं पुत्राय दत्तवान् ॥१३॥ पिहिताश्रवसूरीणां पादपद्मान्तमेत्य सः । उपाददे परिव्रज्यां मोक्षव्रज्यामहारथीम् ॥ १४ ।। त्रिगुप्तिः पञ्चसमितिर्निर्ममो निष्परिग्रहः । निशितं खगधारावच्चिरं सोऽपालयद् व्रतम् ।। १५ ।। स विंशतिस्थानकेभ्यः स्थानः कतिपयैरपि । आर्जयत् तीर्थकृन्नाम कर्म निर्मलमानसः ॥ १६ ॥ शुभध्यानपरः स्वायुः क्षपयित्वा महामनाः । ग्रैवेयकेऽभून्नवमे महर्द्धिरमरोऽथ सः ॥१७॥ इतश्च जम्बूद्वीपान्तर्वर्षेऽत्र भरताभिधे । कौशाम्बीत्यस्ति नगरी वत्सदेशस्य मण्डनम् ॥ १८ ॥ तत्रोच्चतरचैत्याग्रसिंहाभ्यर्णे परिभ्रमन् । त्रस्यताकुरङ्गेण यातीन्दुर्निष्कलकत्ताम् ।। १९ ।। तत्रावासगृहेषूच्चैधूपधूमा वितन्वते । युग्मयूनां रतभ्रष्टांशुकानामंशुकश्रियम् ।। २० ॥ स्वस्तिकन्यस्तमुक्तासु तत्र प्रतिगृहं शुकाः । चञ्च्वाघातं वितन्वन्ति दाडिमीबीजशङ्कया ॥२१॥ श्रीमान् सर्वो जनस्तत्र नान्यस्वं कोऽपि लुण्टति । उद्यानकुसुमामोदस्योल्लुण्टाकः परं मरुत् ।। २२ ॥ आसीत्तत्र धरो राजा धरायास्तापनोदनात् । धारणाच्चाप्यधरयन् धाराधरधराधरान् ।।२३ ॥ न भूपाः खण्डयामासुस्तस्याज्ञां क्षितिमण्डले । पुष्पसजमिवाखण्डां दधुः शिरसि किन्तु ते ॥ २४ ॥ कोदण्डोद्दण्डोदोर्दण्डोऽप्येष नो दण्डचण्डताम् । अदर्शयत् किन्तु सौम्यस्तस्थौ भद्र इव द्विपः ॥ २५ ॥ १ विवेक एव मणयस्तेषां रोहणो गिरिः । २ वर्धमानवैराग्यवान् । ३ मोक्षमार्गे महारथसशीम् । ४ लांछनभूतमृगेण । ५ दंपतीनाम् । ६ मैथुने वस्त्ररहितानाम् ।७ मेघान् पर्वतांश्च । ८ धनुषा प्रचण्डौ दोदण्डौ यस्य । -ताङ्गकु । * तत्र वा", -धरणा'धारणं च व्यवस्थापनम् इत्यर्थः ।
॥६५॥