________________
त्रिषष्टिशलाकापुरुषचरिते
॥६६॥
तृतीयं पर्व चतुर्थः सर्गः | श्रीपद्मप्रभजिनचरितम् ।
यशोऽनुरागैर्युगपद्विस्तीर्णैः ककुभोऽभितः । अचचर्यच्चिरं सोऽर्धश्रीखण्डघुसणैरिव ।। २६ ॥ तस्मिनु महीपतौ लक्ष्मीदेव्या लीलानिकेतने । गुणराशिरभूद् वास्तुदेवतेव सहोत्थितः ।। २७ ।। सतीनां सीमभूताभूतु सुसीमा नाम तस्य तु । सधर्मचारिणी देवकन्यासब्रह्मचारिणी ।। २८ ॥ पाणिपादाधरेणाविःपल्लवा पुष्पिता रदैः । दोर्ध्या सशाखा शुशुभे कल्पद्रुमलतेव सा ।।२९ ॥ नीरङ्गीच्छन्नवदना पश्यन्ती भुवमेव हि । ईर्यासमितिलीनेव मन्थर सञ्चचार सा ॥३०॥ तस्याः शरीरं कान्त्येव ह्रिया शीलमभूष्यत । आर्जवेन मन इव वचनं सूनृतेन च ॥३१ ॥ वदन्ती सातिविशदैर्दन्तांशुभिरशोभत । रजनीरमणज्योत्स्नाप्लवैरिव विभावरी ॥३२॥ इतो ग्रैवेयके जीवः सोऽपराजितभूपतेः । एकाग्रत्रिंशदम्भोधिमितमायुरपूरयत् ॥ ३३ ॥ माघस्य षष्ठ्यां कृष्णायां चित्रास्थे रजनीकरे । च्युत्वा सुसीमास्वामिन्याः कुक्षाववततार च ।। ३४ ।। तदा मुखे प्रविशतस्तीर्थकृज्जन्मसूचकान् । चतुर्दश महास्वप्नान् सुसीमा देव्युदैक्षत ॥३५ ॥ वर्धमाने क्रमाद्र्भे पद्मशय्यासु दोहदः । अभूद् देव्या देवताभिः पर्यपूर्यत तत्क्षणात् ।।३६ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । कार्तिककृष्णद्वादश्यां चन्द्रे चित्रागते सति ।।३७ ।। सद्यो वक्राऽतिचाराभ्यां ग्रहेषूच्चगतेषु च । पद्मवर्ण पद्मचिह्न सा देवी सुषुवे सुतम् ।।३८ ।। षट्पञ्चाशद्दिकुमार्यः सूतिकर्मेत्य चक्रिरे । अथागत्य प्रभुं शक्रोऽनैषीत्स्वर्णाद्रिमूर्धनि ।। ३९ ।।
१ दिशः । २ मिश्रितचंदनकेसरैरिव । ३ प्रकटितपल्लवा । ४ दंतैः । ५ नीरंगी सर्वानाच्छादनवस्त्रवेषः "बुर्यो" इति भाषायां प्रसिद्धः । ६ मंदं । ७ अतिनिर्मलैः । ८ चंद्रज्योत्स्नाप्रवाहैः । * नीरङ्गी शिरोऽवगुण्ठनम् भाषायाम् 'लाज-घुमटो' । एकोनत्रिं ।
FARRAHARASHTRA
| गर्भावतरणं जन्म च ।