________________
त्रिषष्टिशलाका
पुरुषचरिते
॥६७॥
शक्रोत्सङ्गस्थितं नाथमिन्द्रास्तत्राच्युतादयः । क्रमेणास्नपयन् सर्वेऽनुज्येष्ठं सोदरा इव ।। ४० ।। ईशानाङ्कस्थितं नाथं शक्रोऽपि हि यथाविधि । स्नपयामास पूजादि कृत्वा चेत्यभितुष्टुवे ॥ ४१ ॥ अस्मिन्नसारे संसारे मरौ सञ्चारिणां चिरात् । त्वद्दर्शनमभूद् देव ! देहभाजां सुधाप्रपा ।। ४२ ॥ रुपेणाप्रतिरुपं त्वामश्रान्तं पश्यतां सताम् । कृतार्थेयं समभवद् देवानां निर्निमेषता ॥ ४३ ॥ नित्यान्धकारे प्रद्योतः सुखं निरयिणामपि । अभूत्ते तीर्थनाथत्वरुपकस्याऽऽमुखं ह्यदः ।। ४४ ।। पुण्यैः संसारिणां देव ! कृपासारणि वारिणा । सिक्त्वा नयसि वृद्धित्वं चिराद्धर्ममहीरुहम् ॥ ४५ ॥ जगत्त्रितयनाथत्वं ज्ञानत्रितयधारिता । इदमाजन्म सिद्धं ते शीतलत्वमिवाम्भसां ॥ ४६ ॥ पद्मवर्ण ! पद्मचिह्न ! पद्मगन्धिमुखानिल ! । पद्मानेन ! पद्माद्वैतै ! पद्मासद्म ! जय प्रभो ! ।। ४७ ।। अपारो दुस्तरश्चायं सदा संसारसागरः । जानुदध्नोऽधुना नाथ ! त्वत्प्रसादाद्भविष्यति ।। ४८ ।। न कल्पान्तरसाम्राज्यं नानुत्तरनिवासिताम् । वाञ्छामि किन्तु शुश्रूषां भवतः पादपद्मयोः ॥ ४९ ॥ स्तुत्वैवं नाथमादाय शक्रो द्रुतमुपेत्य च । सुसीमास्वामिनीपार्श्वे मुमोच द्यां जगाम च ।। ५० ।। पद्मशय्यादोहदोऽस्मिन् यन्मातुर्गर्भगेऽभवत् । पद्माभश्चेत्यमुं पद्मप्रभ इत्याह्वयत् पिता ॥ ५१ ॥ लाल्यमानो द्युधात्रीभिः क्रीडन् सुरकुमारकैः । क्रमेण ववृधे स्वामी द्वितीयं चाऽऽसदद् वयः ।। ५२ ।। सार्धधन्वद्विशत्युच्चः पृथूरस्को बभौ प्रभुः । पद्मरागशिलाक्लृप्तक्रीडाशैल इव श्रियः ।। ५३ ।।
१ अनुपमम् । २ नारकिणाम् । ३ आमुखं प्रथमः प्रारम्भः तीर्थनाथस्वरूपनाटकस्य प्रारम्भिकं फलम् । ४ कृपैव सारणिः तस्या वारि तेन । कमलयुक्तलक्ष्म्याः गृह । ६ जानुप्रमाणः । ७ स्वर्गम् । ८ विशालवक्षाः । * वाम्भसः संवृ । सङघ । = चाभवद्° । अद्वैतेन पद्मरुपाभेदेन सर्वत्र पद्ममयत्वात् ।। द्वितीयं वयः- यौवनम् ।
तृतीयं पर्व
चतुर्थः
सर्गः
श्रीपद्मप्रभजिनचरितम् ।
जन्मोत्सवः ।
॥ ६७ ॥