________________
त्रिषष्टिशलाकापुरुषचरिते ॥६८॥
तृतीयं पर्व चतुर्थः सर्गः श्रीपद्मप्रभजिनचरितम् ।
तित्यक्षरपि संसार स्वामी लोकानुवर्तनात् । मातापित्रनुरोधाच्च चक्रे दारपरिग्रहम् ।। ५४ ।। जन्मतः पूर्वलक्षेषु गतेष्वर्धाष्टमेष्वथ । उपरोधात् पितुः स्वामी राज्यभारमुपाददे ॥ ५५ ॥ राज्यं च पालयन सार्धा पूर्वलक्षैकविंशतिम् । तथा षोडश पूर्वाङ्गाण्यत्यक्रामज्जगत्पतिः ।। ५६ ।। भवपारं जिगमिषुः स्वामी लोकान्तिकामरैः । दीक्षायै प्रेरितो गत्यै पथिकः शकुनैरिव ।। ५७ ।। ददौ च वार्षिकं दानं ददतश्च प्रभोर्वसु । कुबेरप्रेरिताः सन्तो जृम्भकाः पर्यपूरयन् ॥ ५८ ॥ अथेन्द्रभूपैर्विहिताभिषेकः शिबिकां प्रभुः । आरुह्य निर्वृतिकरां सहस्राम्रवणं ययौ ॥ ५९ ॥ चित्रायां कार्तिक कृष्णत्रयोदश्यां च षष्ठकृत् । समं राजसहस्रेणापराह्ने प्राव्रजत् प्रभुः ।। ६०॥ द्वितीयदिवसे स्वामी पुरे ब्रह्मस्थलेऽकरोत् । पारणं परमान्नेन सोमदेवनृपौकसि ।। ६१ ॥ अमरा विदधुस्तत्र पञ्चदिव्याद्भुतान्यथ । स तु चक्रे नृपो रत्नपीठं यत्र स्थितो विभुः ।। ६२ ।। विजहार च षण्मासांश्छद्मस्थः परमेश्वरः । आगाद् भूयः सहस्राम्रवणं दीक्षकसाक्षिकम् ।। ६३ ।। षष्ठेन प्रतिमास्थस्य विभोर्वटतरोस्तले । प्रणेशु_तिकर्माणि वातोधूताभ्रजालवत् ।।६४ ॥ ततश्चैत्रस्य राकायां चन्द्रे चित्रामुपेयुषि । अम्लानं केवलज्ञानमभूत् पद्मप्रभप्रभोः ॥ ६५ ॥ सुरासुरेन्द्राः समवसरणं तत्र चक्रिरे । प्रारद्वारा प्रविवेशाथ तत्र त्रिभुवनेश्वरः ।।६६ ॥ सार्धक्रोशोन्नतं चैत्यपादपं परमेश्वरः । तत्र प्रदक्षिणीचक्रे तमिव त्रिदिवेश्वरः ।। ६७ ॥ "तीर्थाय नम" इत्येवमुच्चैरुच्चारितस्तुतिः । रत्नसिंहासने पूर्वाभिमुखो न्यषदत्प्रभुः ।।६८॥ १ त्यक्तुमिच्छुः । २ आग्रहात् । ३ सुरविशेषाः । ४ सुखकर वनविशेषणमिदम् । ५ वायुनिरस्तमेघसमूहवत् । ६ शुद्धं । * कातिव' । 'मेषु च । ज्यं प्रपालयन् सार्धपू।
दीक्षा केवलज्ञानं च।
।।६८ ॥