________________
त्रिषष्टिशलाकापुरुषचरित
॥६९॥
तृतीय पर्व चतुर्थः
सर्गः ||श्रीपद्मप्रभ|जिनचरितम् ।
प्रभोश्च प्रतिबिम्बानि दिक्ष्वन्यास्वपि नाकिनः । तत्प्रभावेण तद्रुपनिर्विशेषाणि चक्रिरे ।। ६९ ॥ तत्र चास्थाद्यथास्थानं श्रीमान् संघश्चतुर्विधः । स्वामिन्युत्कण्ठयोत्कण्ठः केकिव्रज इवाम्बुदे ॥ ७० ॥ अथ सौधर्मकल्पेन्द्रः प्रणम्य परमेश्वरम् । यथार्थसारया वाचा तुष्टाव स्पष्टभक्तितः ।।७१ ॥ निघ्नन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शर्मसौहित्यं महतां कापि वैदुषी ॥७२ ।। अरक्तो भुक्तवान् मुक्तिमद्विष्ये हतवान् द्विषः । अहो ! महात्मनां कोऽपि महिमा लोकदुर्लभः ॥७३ ॥ सर्वथा निर्जिगीषेण भीतभीतेन चागसः । त्वया जगत्त्रयं जिग्ये महतां कापि चातुरी ॥७४ ॥ दत्तं न किञ्चित् कस्मैचिन्नात्तं किञ्चित् कुतश्चन । प्रभुत्वं ते तथाप्येतत् कला कापि विपश्चिताम् ।।७५ ॥ यद्देहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ ! पादपीठे तवालुठत् ॥७६ ।। रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ।। ७७ ॥ महीयसामपि महान् महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ।। ७८ ।। सर्वे सर्वात्मनान्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या तत्प्रमाणं सभासदः ॥ ७९ ॥ भूयो भूयो भवत्पाददर्शनं मे भवत्विति । आशंसामि जगन्नाथ ! निर्वाणमपि नापरम् ।। ८० ।। एवं स्तुत्वा स्थिते शक्रे प्रारेभे धर्मदेशनाम् । पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा ।। ८१ ॥ पारावार इवापारः संसारो घोर एष भोः ! । प्राणिनश्चतुरशीतियोनिलक्षेषु पातयन् ।। ८२ ।। १ देवाः । २ नाशयन् । ३ शमतृप्तिम् । ४ निर्गता जिगीषा यस्य तेन । ५ गृहीतम् । ६ पूज्यः । ७ मोक्षम् । ८ समुद्रः । * योन्यावर्तेषु । + "सारोऽप्येष एव भोः!।
||शक्रस्तुतिः ।
।।६९ ।।