________________
तृतीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
७०॥
चतुर्थः
सर्गः श्रीपद्मप्रभ| जिनचरितम् ।
श्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः । संसारनाट्ये नटवत् संसारी हन्त ! चेष्टते ।। ८३ ॥ न याति कतमा योनि कतमा वा न मुञ्चति । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ।। ८४ ॥ समस्तलोकाकाशेऽपि नानारुपैः स्वकर्मतः ! वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ।। ८५ ।। संसारिणश्चतुर्भेदाः श्वनितिर्यग्नरामराः । प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ।। ८६ ॥ आद्येषु त्रिषु नरकेषूष्णं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ।। ८७ ॥ नरकेषूष्णशीतेषु चेत्पतेल्लोहपर्वतः । विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ।। ८८ ॥ उदीरितमहादुःखा अन्योऽन्येनासुरैश्च ते। इति त्रिविधदुःखार्ता वसन्ति नरकावनौ ।। ८९ ॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वारा यथा सीसशलोकिका ।। ९० ।। गृहीत्वा पाणिपादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ।। ९१ ।। दारुदारं विदार्यन्ते दारुणैः कटुः क्वचित् । तिलपेशं च पिष्यन्ते चित्रयन्त्रैः क्वचित्पुनः ॥ ९२ ॥ पिपासार्ताः पुनस्तप्तत्रपु-सीसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वरोककाः ॥९३ ॥ छायाभिकाडिक्षणः क्षिप्रमसिपत्रवनं गताः । यत्र शस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ।।९४ ।। संश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्तायःपुत्रिकाः क्वापि स्मारितान्यवधूरतम् ।।९५ ॥ संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपुः ॥ ९६ ॥
१ वेदज्ञब्राह्मणः । २ चांडालः ।३ भाटकरुपवेतनेन गृहीतं गृहम् । ४ नारकी । ५ बहूनि लघूनि छिद्राणि यस्मिन् तेन लघुच्छिद्रेण साधनेन भाषायाम् 'जतरहो' । ६ शलाकिका भाषायाम् 'सली' ७ काष्ठदारणसशम् । ८ करपत्रैः । ९ दीनाः । १० मदिरासक्तत्वं । * पुनस्तत्रत्र ।
SARASHASARAS
| देशना
तत्र च चतुर्गतिस्वरुप वर्णनम् ।
॥७० ॥
חוק ו