________________
तृतीयं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
॥७१॥
सर्गः श्रीपद्मप्रभजिनचरितम् ।
भ्राष्ट्र-कण्डू-महाशूल-कुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥९७ ॥ छिन्नभिन्नशरीराणां भूयो मिलितवर्मणाम् । नेत्राद्यङ्गानि कृष्यन्ते बककङ्कादिपक्षिभिः ॥९८ ॥ एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालम् आ त्रयस्त्रिंशसागरम् ।। ९९ ॥ तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यैकेन्द्रियादिताम् । तत्रापि पृथिवीकायरुपतां समुपागताः ॥ १००॥ हलादिशस्त्रैः पाट्यन्ते मृद्यन्तेऽश्वगजादिभिः । वारिप्रवाहैः प्लाव्यन्ते दह्यन्ते च दवामिना ।। १०१ ॥ व्यथ्यन्ते लवणाचाम्लमूत्रादिसलिलैरपि । लवणक्षारतां प्राप्ताः क्वथ्यन्ते चोष्णवारिणि ।। १०२ ।। पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च नीत्वा कर्दमरुपताम् ॥ १०३ ।। केचिच्छाणैर्निधृष्यन्ते विपच्य क्षारमृत्पुटैः । टाण्डकैर्विदार्यन्ते पाट्यन्तेऽद्रिसरित्प्लवैः ॥ १०४ ।। अप्कायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांसुभिः ॥ १०५ ॥ क्षारेतररसाश्लेशाद्विपद्यन्ते परस्परम् । स्थाल्यन्तःस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ १०६ ।। तेजःकायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । घनादिभिः प्रकुट्यन्ते ज्वाल्यन्ते चेन्धनादिभिः ।। १०७ ॥ वायुकायत्वमप्याप्ता हन्यन्ते व्यजनादिभिः । शीतोष्णादिद्रव्ययोगाद्विपद्यन्ते क्षणेक्षणे ।। १०८ ॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् । मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिभिः ॥१०९ ॥ वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः । छिद्यन्ते वाथ भिद्यन्ते पच्यन्ते वाग्मियोगतः ।। ११०॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योऽन्यघर्षणैः । क्षारादिभिश्च दह्यन्ते सन्धीयन्ते च भोक्तृभिः ।।१११ ॥ १ प्राष्ट्रम् 'भट्ठि' इति भाषायाम् ।२ कण्डू भ्राष्ट समानाम् । ३ भ्राष्टपात्रारोपितमांसवत् । ४ मिलितशरीराणाम् । ५ कुंभेष्टकाधीनाः । *" नि क्लिश्यन्ते ।
नरकगतितिर्यग्गतिस्वरुपम् ।
॥७१ ॥