________________
त्रिषष्टिशलाका
पुरुषचरि ।। ७२ ।।
सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः । क्रियन्ते भस्मसाद् दावैरुन्मूल्यन्ते सरित्प्लवैः ॥ ११२ ॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः । सर्वैः शस्त्रैः सर्वदानुभवन्ति क्लेशसन्ततिम् ॥ ११३ ॥ द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः । चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः ।। ११४ ।। शङखादयो निखन्यन्ते निष्कृष्यन्ते जलौकसः । गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ।। ११५ ॥ त्रीन्द्रियत्वेऽपि सम्प्राप्ते षट्पदीमत्कुणादयः । विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ।। ११६ ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मध्यन्ते चासनादिभिः ।। ११७ ॥ चतुरिन्द्रियताभाजः सरैघाभ्रमरादयः । मधुभक्षैर्विराध्यन्ते यष्टिलोष्टादिताडनैः ॥ ११८ ॥ ताड्यन्ते तालवृन्ताद्यैर्द्राग्दंशमशकादयः । ग्रस्यन्ते गृहगोधाद्यैर्मक्षिकामर्कटोदयः ॥ ११९ ॥ पञ्चेन्द्रिया जलचराः खाद्यन्तेऽन्योऽन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च बक़ादिभिः ।। १२० ॥ उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैर्विपाच्यन्ते निगाल्यन्ते वसार्थिभिः ।। १२१ ॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैर्मार्यन्ते मांसकाङ्क्षिभिः ।। १२२ ।। मृगयासक्तचित्तैस्तु क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ।। १२३ ।। क्षुधापिपासाशीतोष्णातिभारारोपणादिना । कशाङ्कुशप्रतोदैश्च वेदनां प्रसहन्त्यमी ।। १२४ ।। खेचरास्तित्तिरिशुककपोतचटकादयः । श्येनसिञ्चानगृध्राद्यैर्ग्रस्यन्ते मांसगृध्नुभिः ।। १२५ ।।
१ वायुभिः । २ यूकामत्कुणादयः । ३ मधुमक्षिकाः । ४ मधुमक्षकैः पुरुषैः । ५ मर्कट ऊर्णनाभः । ६ शूलेन संस्कृतं मांसं भटित्रं तस्य भावस्तत्ताम् । ७ खादिभिः" इति पाठांतरम् । ८ अश्वताडनी कशा, वृषताडनः प्रतोदः । ९ मांसलोलुपैः । * मर्य्य [र्ध] न्ते ।
तृतीयं पर्व
चतुर्थः
सर्गः
श्रीपद्मप्रभ
जिनचरितम् ।
तिर्यग्गति
स्वरुपम् ।
।। ७२ ।।