________________
त्रिषष्टिशलाकापुरुषचरिते |७३॥
तृतीयं पर्व चतुर्थः सर्गः |श्रीपद्मप्रभ
जिन
चरितम् ।
मांसलुब्धैः शाकुनिकै नोपायप्रपञ्चतः । सङगृह्य प्रतिहन्यन्ते नानारुपैर्विडम्बितैः ।। १२६ ।। जलाग्निशस्त्रादिभवं तिरश्चां सर्वतोभयम् । कियद्वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ।। १२७ ।। मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः । तत्तत्पापं प्रकुर्वन्ति यद्वक्तुमपि न क्षमम् ॥ १२८ ॥ उत्पन्ना आर्यदेशेऽपि चाण्डालश्वपचादयः । तत्तत्पापं प्रकुर्वन्ति दुःखान्यनुभवन्ति च ।। १२९ ।। आर्यदेशे समुत्पन्ना अप्यनार्यविचेष्टिताः । दुःखदारिद्रयदौर्भाग्यनिर्दग्धा दुःखमासते ॥ १३०॥ परसम्पत्प्रकर्षणापकर्षेण स्वसम्पदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः ।। १३१ ।। रुग्जरामरणैर्ग्रस्ता नीचकर्मकदर्थिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ।। १३२ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भे वासो यथा घोरनरके वाससन्निभः ।।१३३ ।। सूचीभिरग्निवर्णाभिर्भिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्ट्गुणं तद् भवेद् गर्भवासिनः ॥१३४ ॥ योनियन्त्राद्विनिष्क्रामन् यदुःखं लभते भवी । गर्भवासभवात् दुःखात्तदनन्तगुणं खलु ।। १३५ ॥ बाल्ये मूत्रपूरीषाभ्यां यौवने रतचेष्टितैः । वार्धके श्वासकासाद्यैर्जनो जातु न लज्जते ।। १३६ ॥ पुरीषसूकरः पूर्वं ततो मदनगर्दभः । जराजरद्गवः पश्चात् कदापि न पुमान् पुमान् ॥ १३७ ॥ स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूल् नात्ममुखः क्वचित् ।। १३८ ॥ सेवाकर्षणवाणिज्यपाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविह्वलो जनः ॥ १३९ ॥ १ पक्षिहंतृभिः । २ सेवया । ३ नीचकर्मभिर्दूषिताः । ४ मैथुनचेष्टामिः । ५ “नान्तर्मुखः” इति पाठान्तरं । * रुपविड ।
| मनुष्यगतिस्वरुपम् ।
॥७३॥