________________
त्रिषष्टि
शलाका
पुरुषचरिते
||६४ ॥
(चतुर्थः सर्ग: । (श्री पद्मप्रभस्वामिचरितम् ।
वन्दामहे पद्मवर्णं पद्मप्रभजिनेश्वरम् । लीलानिवासं पद्मायाः पद्मराशिमिव स्थितम् ॥ १ ॥ पद्मप्रभजिनेन्द्रस्य चरितं दुरितापहम् । तत्प्रभावादसामान्याद् वक्ष्यामि क्षामधीरपि ॥ २ ॥ धातकीखण्डद्वीपस्य प्राग्विदेहैकमण्डने । वत्साभिधाने विजये सुसीमेत्यस्ति पूर्वरा ॥ ३ ॥ तत्रापराजितो नाम द्विषद्भिरपराजितः । जितेन्द्रियः समभवद्भूपो धर्म इवाङ्गवान् ॥ ४ ॥ तस्य न्यायः सुहृदभूद् धर्मो बन्धुर्गुणा धनम् । सुहृद्बन्धुधनान्यासन् बहिरङ्गानि केवलम् ।। ५ ।। तस्यार्जवं च शीलं च सत्त्वं चेत्यूर्जिता गुणाः । मिथो भूषणतां जग्मुः पादपस्येव पल्लवाः ।। ६ ।। अकोपनोऽनशिषेदनासक्तोऽन्वभूत्सुखम् । अलुब्धश्च श्रियं दधे स विवेकिशिरोमणिः ॥ ७ ॥ अर्हत्प्रवचनसुधां पिबन् देव इवान्यदा । स एवं चिन्तयामास तत्त्वनिष्ठेन चेतसा ॥ ८ ॥ सम्पदो यौवनं रूपं शरीरं हरिणीध्शः । पुत्रमित्राणि हर्म्याणि दुस्त्यजानि शरीरिणाम् ।। ९ ।। जीवन्नप्यदशां प्राप्तः कालधर्मं गतोऽपि वा । एभिस्तु त्यज्यते जन्तुर्विनष्टाण्डमिवाण्डजैः ।। १० ।। एकपादेन फालाभं स्नेहं तेष्वेकपक्षकम् । कुर्वाणो भ्रश्यति स्वार्थाद् धिगहो ! मन्दधीर्जनः ॥ ११ ॥
1
१ लक्ष्म्याः । २ कमलसमूहम् । ३ पापनाशकम् । ४ अल्पधीः । ५ अशिषत् - शासयाञ्चकार । ६ फाल भाषायां 'कूदको' । * सत्यं चे ।
तृतीयं पर्व चतुर्थः
सर्गः
श्रीपद्मप्रभ
जिनचरितम् ।
| पूर्वभवः ।
।। ६४ ।।