________________
त्रिषष्टिशलाका
पुरुषचरिते ॥६३॥
449
चैत्रस्य सितनवम्यां पुनर्वसुगते विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ २६० ॥ युग्मम् ॥ कौमारेऽयुः पूर्वलक्षा दश राज्ये पुनः प्रभोः । पूर्वलक्षैकोनत्रिंशद् द्वादशाङ्गसमन्विता ।। २६१ ।। पूर्वलक्षं द्वादशाङ्गन्यूनं व्रतधरस्य तु । चत्वारिंशत्पूर्वलक्षा इत्यायुः सुमतिप्रभोः ॥ २६२ ॥ अभिनन्दननिर्वाणात् सुमतिस्वामिनिर्वृतिः । कोटिलक्षेषु नवसु सागराणां गतेष्वभूत् ॥ २६३ ॥ भर्तुः सहस्रयतिनां च तदाशरीरसंस्कारमग्निजनितं विधिवद् विधाय । निर्वाणपर्वमहिमानमकार्षुरिन्द्रा नन्दीश्वरान्तरगमंश्च पुनः स्वलोकम् ॥ २६४ ॥
܀܀܀
इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीयपर्वणि सुमतिस्वामिचरितवर्णनो नाम तृतीयः सर्गः ।
१ पुनर्वसु नाम नक्षत्रं ।
445-96
तृतीयं पर्व तृतीयः
सर्गः
श्रीसुमतिजिनचरितम् ।
निर्वाणम् ।
॥ ६३ ॥