________________
त्रिषष्टिशलाकापुरुषचरिते
॥२॥
तृतीयं पर्व तृतीयः सर्गः श्रीसुमतिजिन
चरितम् ।
द्वितीयपौरुषीप्रान्ते व्यसृजत्सोऽपि देशनाम् । नत्वाऽर्हन्तं ततो जग्मुः स्वं स्वमिन्द्रादयः पदम् ।। २४५ ।। तत्तीर्थे तुम्बुरुर्नाम श्वेताङ्गस्तार्यवाहनः । दक्षिणौ वरदशक्तिधरौ बाहू समुद्वहन् ।। २४६ ।। वामौ बाहू गदाधारपाशयुक्तौ च धारयन् । सदा सैन्निहितो भर्तुरभूच्छासनदेवता ॥२४७ ।। युग्मम् ॥ तथोत्पन्ना महाकाली स्वर्णरुक्पद्मवाहना । दधाना दक्षिणी बाहुदण्डौ वरदपाशिनौ ॥२४८ ॥ मातुलिङ्गाङ्कशधरौ परौ बाहू च बिभ्रती । भर्तुःशासनदेव्यासीत्सदा सन्निधिवर्तिनी ।।२४९ ॥ वचनातिशयैः पञ्चत्रिंशता शोभितः प्रभुः । बोधयन् भव्यभविनो विजहार वसुन्धराम् ॥२५० ॥ साधूनां त्रीणि लक्षाणि सहस्राणि च विशतिः । साध्वीनां पञ्चलक्षी च सहत्रिंशत्सहस्रिका ।। २५१ ॥ चतुर्दशपूर्विणा द्वे सहस्रे सचतुःशते । एकादश सहस्राणि त्ववधिज्ञानशालिनाम् ।। २५२ ।। मनोज्ञानिनामयुतं सपञ्चाशच्चतुःशती । त्रयोदश सहस्राणि केवलज्ञानिनां पुनः ।। २५३ ॥ वैक्रियलब्धिसहस्राण्यष्टादश चतुःशती । अयुतं वादलब्धीनां सपञ्चाशच्चतुःशती ।। २५४ ।। श्रावकाणामुभे लक्षे सैकाशीतिसहस्रके । श्राविकाणां पञ्चलक्षी सहस्राणि च षोडश ॥२५५ ॥ चतुस्त्रिशदतिशयान्वितस्य सुमतिप्रभोः । उर्ध्या विहरमाणस्य बभूवेति परिच्छेदः ॥२५६ ॥ पूर्वलक्षं द्वादशाझ्या विंशत्यब्द्या च वर्जितम् । आरभ्य केवलोत्पत्तेर्व्यहरत् सुमतिः प्रभुः ॥ २५७ ॥ स्वं मोक्षकालं ज्ञात्वाथ सम्मेताद्रिं ययौ विभुः । समं मुनिसहस्रेण तस्थावनशनेन च ॥२५८ ॥ मासान्ते क्षतभवोपग्राहिकर्मा जगत्पतिः । सम्प्राप्तानन्तचतुष्कः शैलेशीध्यानमास्थितः ।। २५९ ॥
१ गरुडवाहनः ।२ सुवर्णकांतिः । ३ परिजनः । ४ क्षतानि भवस्योपग्राहीणि कर्माणि येन यस्य वा । '* सन्निहिता भ'। + "रौ वामबा' ।-न्ते क्षित' ।
परिवारः।
।। ६२ ॥